पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे निमित्तमनध्यायस्य ॥११॥ सब्रह्मचारिणीत्येके ।। १२ ।। एके तु सब्रह्मचारिणो मरण एवाऽनन्तरोक्तमनध्यायमिच्छन्ति, न तु श्री. त्रियमामान्यमरणे ॥ १२॥ श्रोत्रियाभ्यागमेऽधिजिगांसमानोऽधीयानो वाऽनुज्ञाप्याधीमीत ॥ १३ ।। श्रोत्रियेऽभ्यागते अध्येतुकामोऽधीयानश्च तमनुज्ञाप्याघीयीत ॥ १३ ॥ अध्यापयेवा ॥१४॥ अध्यापयितुकामोऽध्यापयन्वेति प्रकरणागम्यते । सोऽपि तमनु- झाप्याध्यापयदिति ॥ १४ ॥ गुरुसन्निधौ "चाधीहि भो" इत्युक्त्वाऽधायीत ॥ १५ ॥ धारणाध्ययनं पारायणाध्ययन वा कुर्वन् गुरौ सन्निहिते सति 'अधीहि भो' इत्युक्त्वाऽधीयीत ॥ १५॥ * अध्यापहा ॥ १६ ॥ अध्यापयन्नपि तत्सन्निधावेवमेवोक्त्वाऽध्यापयेत् ॥ १६ ॥ * उभयत उपसंग्रहणमधिजिगासमानस्थाधीत्य च ॥१७॥ उभयतः अध्ययनस्याऽदावन्ते व उपसंग्रहण कर्तव्यं यथाक्रम(१)मध्ये तुकामस्याऽऽदावधीत्यान्ते ॥ १७ ॥ * अधीयानेषु वा यत्राऽन्यो व्यवेयादेतमेव शब्दमुत्सृज्याऽधीपीत ॥ १८ ॥ बहुवचनमतन्त्रम् । अधीयानेषु च यत्राऽन्यो व्यवेयादन्तरा गच्छेद, तत्रा 'पयधीहि भो' इत्येतमेव शब्दमुत्सृज्य उच्चार्याऽधीचीत । प्रत्ये. कमुपदेशादेकवचनम् । अधीयीरन् ॥१८॥ श्वगर्दभनादास्सलावृष्येकसकोलूकशब्दास्सर्वे वादित शब्दा रोदनगीतसामशब्दाश्च ॥१९॥ शुनां गर्दभानां च बहूनां नादः । बहुवचनानिर्देशात् । सलाकी १. अध्येतुकामस्येत्यादि ड पुस्तक एवास्ति । * मनौ, २ ७३ इलोको द्रष्टव्यः ।