पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनध्यायाः ] उज्वलोपेते प्रथमः प्रश्नः । (१)र्विभाष' ति विकल्पः । अन्ये तु शावं दुःखमनुभवतां सर्वेषां परिवा. पनमिच्छन्ति । अपर आह-~अनुभाविन उदकाः । तेषां मरणे परिवापन- मिति ॥६॥ न सभावृत्ता वपेरनन्यत्र विहारादित्येके ॥७॥ विहारो यागदीक्षा । सतोऽन्यत्र न समावृत्ता वपेरनित्येके मन्यते । रथमतं तु वपरनेवेति ॥ ७॥ ता वपनस्याऽमङ्गलत्वं गुणविधिना परिहारंच वक्तुं ब्राह्मणमु. दाहरति- अथापि ब्राह्मणम्-रिक्तोवा एषोऽनपिहितो य- न्मुण्डस्तस्यैतदपिधान यच्छिखेति ॥ ८ ॥ रिक्तः अन्तःशून्यो घटादिः। सोऽनपिहित पिधानरहितो यादृशः तादृश एषः यन्मुण्डो नाम । तस्य रिक्तस्यापिधानमेतत् यच्छिखा नाम । अनेन चैतदर्शित-निषेधशास्त्रं सह शिखया वपनप्रतिषेधपरमिति ॥ ८॥ कथं तहि सत्रेषु शिखाया वपनम् १ (२)वचनलामथ्यादित्याह-- सत्रेषु तु वचनापनं शिखायाः ॥ ९ ॥ स्पष्टम् ॥९॥ आचार्य श्रीनहोरात्रानित्येके ॥१०॥ आचार्य संस्थिते श्रीनहोरात्रानध्ययनं वर्जयेदित्येक मन्यते । स्वपक्षस्तु द्वादशाहः पूर्वमुक्तः ॥ १०॥ श्रोत्रियसंस्थाचा(३)मपरिसंवत्सरायामेकाम् ॥ ११ ॥ श्रोत्रियं (४)वक्ष्यति । तस्य सस्थायामपरिपूर्णसंवत्सराया श्रुतायामेकां रात्रि- मेकमहोरात्रमध्ययनं वर्जयेत् । अन्न संस्थाश्रवणाहुदिन्यपि सैव १ पा. सू.८.४. ३. उपसर्गस्थानिमित्तात्परस्य, णिजन्ताद्विहितो यः कृत्प्रत्ययः तद्गतस्य नकारस्य णत्वं विकरुपेन स्यात् इति सूत्रार्थ. । २. ५६. पृष्ठ ५. टिप्पणी द्रष्टया । ३. उपरि संवत्सरायां इति क. पुस्तकेऽपपाठः । ४. आप. ध. २. ६. ४. सूत्रे । आप००८