पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिधर्माः] उज्वलोपेते प्रथमः प्रश्नः । 'छत्रं यानमिति वर्जयेदिति पूर्वोक्तस्थ प्रतिषेधस्यापवादः। यानं च गुर्मा. रूढमन्यद्वा ॥१२॥ सभानिकषकटस्वस्तरांश्च ॥ १३ ॥ उक्तोऽध्वन्यन्वारोहेदित्येव । 'सभास्लमाजांचे' त्यस्यापवादार्थ सभाग्रहणम् । निकषो नाम कृषीवलानामुपकरण, कृष्ट क्षेत्र येन समीकि यते, यच्च कस्मिश्चिदारूढे(१) केनचिदाकुम्यते । तत्र गुरुणा आकृष्य- माणेऽपि तेनोक्तस्सन्नारोहेत । न त्वनौचित्यभयानारोहेदिति । कटो धोरणनिर्मिता शय्या। तत्र गुरुणोक्तस्सन सहाऽऽसीत । उत्सवादावेष आचारः । स्वस्तरोनास पलालशय्या । (२) नवस्वस्तरे संविशन्तीति दर्शनात् । तत्रापि गुरुणोक्तस्मन् सहासनादि कुर्थात् ॥ १३ ॥ मानभिभाषिनो गुरुमभिभाषेत प्रियादन्यत् ॥१४॥ गुरुणाऽनभिभाषित्तो गुरु प्रति न किञ्चित् ब्रूयात् प्रियादन्यत् । प्रियं तु ब्रूयात् यथा ते पुत्रो जात इति ॥१४॥ व्युपत्तोदव्युपजापव्यभिहासोदामन्त्रणनामधेयग्रहण. प्रेषणानीति गुरोर्वर्जयेत् ।। १५ ।। व्युपतोद. (३)अमुल्यादिघट्टनं यदाभिमुख्यार्थ क्रियते । व्युपजापः श्रोत्रयो मुहुर्मुहुर्जल्पनम् । वकारश्चान्दसोऽपपाठो वा । व्यभिहासः आभिमुख्शेन हसनम् । उदामन्त्रणमुच्चैस्सम्बोधनम् , यथा बधिरं प्रति । नामधेयग्रहण दशम्यां पितृविहितस्य नाम्नो ग्रहणम्। न पूज्यनाम्नो भग- चदादेः । प्रेषणमाज्ञापनम् । एतानि गुरुविषये न कर्तव्यानि । इतिकरणा- देवप्रकाराणामन्येषामपि प्रतिषेधः । यथाऽऽह मनु:- (४) नोदाहरेत्तस्य नाम परोक्षमाप केवलम् । न चैवास्यानुकुर्वीत गतिभाषितचेष्टितम् ॥ इति ॥ १५ ॥ आपद्यर्थ ज्ञापयेत् ॥ १६ ॥ आपदि व्युपतोदादिभेरप्यर्थमभिप्रेतं ज्ञापयेत् । असति पुरुषान्तरे (५)वचनेनापि बाधयेत्, न साक्षात्प्रेषयेत् , यथा-शूलतोदो मे भवति, १, केनचिदाकृष्यमाणे क्षेत्र समं भवति. इति. घ. पु. २. आप. गृ.१९-९ ३ अहुल्यादिना संघटनम् इति, प. पु. ५ वचनेनैव इति क.पु.