पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्म सचे { (प.२.)क.७ मविशेण ? अन्यत्रोपसङ्ग्रहणादुच्छिष्टाशनाच्च, पादोपलङ्गणमुच्छिष्टाशनं च इत्येतदुभयं वजयित्वा । अत्र मनु:- (१) गुरुवद्गुरुपत्नीषु युवती भिवादयेत् ।' इति । गौतमस्तु, (२) तद्भार्यापुत्रेषु चैवं नोच्छिाशनालापनप्रसाधनपा- दप्रक्षालनोन्मर्दनोपसङ्ग्रहणानि' इति । 'दार' इत्थेकवचन छान्दसम्॥२७॥ तथा समादिष्टेऽध्यापयति ।। २८ ॥ य आचार्येण समादिष्टो नियुक्तोऽध्यापयति तस्मिन्नाचार्यदारववृत्तिः । 'अध्यापयतीति वर्तमाननिर्देशा(३)द्यावदध्यापनमेवायमतिदेशः ॥२८॥ वृद्धतरे च सब्रह्मचारिणि ।। २९ ।। अध्यापयतीति नाऽनुवर्तते । तरनिर्देशात् मानवपोभ्यामुभाभ्यां वृद्धो गृह्यते । सब्रह्मचारी सहाध्यायी, समाने ब्रह्मणि व्रत चरतीति । त. स्मिन्नप्याचार्यदारवत्तिः। 'आचार्यात्पादमादत्ते पाद शिष्यः स्वमेधया । पाद सब्रह्मचारिभ्यः पादः कालेन पच्यते ॥' इत्यध्ययने उपयोगसम्भवात् ॥ २९ ॥ उच्छिष्टाशनधर्जमाचार्यवदाचार्यपुत्रे धृत्तिः ॥ ३० ॥ उच्छिष्टाशनवज मिति वचनादुपसङ्ग्रहणं भवति । एतच्च शा- नवयोभ्यामुभाभ्यां वृद्धे । तदर्थे वृद्धतर इत्यनुवर्तते । गौतमीयस्तूपस. ब्रहणप्रतिषेधो वृद्धतरादन्यविषयः ॥ ३० ॥ समावृत्तस्याप्येतदेव सामथाचारिकमेतेषु ॥ ३१ ॥ कृतसमावर्तनस्थाप्येतदेवानन्तरोक्तम् । एतेष्त्राचार्यादिषु पुत्रान्तेषु सामयाचारिक समयाचारप्राप्तं वृत्तमान्तात् । समादिष्टे स्वध्यापोती ति( विशेष उक्तः ॥ ३१ ॥ ॥ इत्यापस्तम्बीयधर्मसूत्रकृत्तावुज्यलायां सप्तमी कण्डिका । १. मनु. स्मृ २. २१२. गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयो. । इति मुद्रितमनु- स्मृतिपाठः। ३. यावदध्यापनं तावदेवातिदेशः इति. ख. पु.