पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिधर्माः] उज्वलोपने प्रथम प्रश्नः । यदा स्वाचार्यों विषमगत आपदनः तदा उप्रतः शूद्रतो वाऽपि प्रतिगृह्य दक्षिणामाहरेत् । वैश्याच्छूद्रायां जात उग्र, उनकर्मा वा द्विजातिः ॥२०॥ सर्वदा शूद्रत उग्रतो वाऽऽचार्यार्थस्थाहरणं धमित्येक॥२१॥ सर्वदा आपद्यनापदि च, आचार्यार्थस्याचार्याय यो देयोऽर्थः तस्य, उग्रतः शूद्रतो वाऽऽहरण धर्म्य धर्मादनपेतमित्येके मन्यन्ते । 'धार्म्य'मिति पाठे स्वार्थ ध्यञ् ॥२१॥ दत्वा च नाऽनुकथयेत् ॥ २२ ॥ आचार्याय एकमात्य दत्वा न कीर्तयेत्,-एतन्मया दत्तमिति ॥ २२ ॥ कृत्वा च नाऽनुस्मरेत् ।। २३ ।। गुरवे प्राणसंशयादौ महान्तमप्युपकारं कृत्वा नानुस्मरेत् नाऽनुचिन्ता येत्-अहो मयैतत्कृतमिति ॥ २३ ॥ आत्मप्रशंसा परगहीमिति च वर्जयेत् ॥ २४ ॥ इतिकरणादेवप्रकाराणामात्मनिन्दादीनामपि प्रतिषेधः ॥ २४ ॥ प्रेषित(१)स्तदैव प्रतिपद्येत ॥ २५ ॥ इद कुर्वित्याचार्येण प्रेषितस्तदैव प्रतिपद्येत कुर्यात क्रियमाणमपि कर्म विहाय, यद्यपि (२) तदाचार्थस्य भवति ॥ २५ ॥ शास्तुश्चाऽनागमात्तिरन्यन्त्र ॥ २६ ॥ तस्मिश्च विद्याकर्मान्त' मित्वस्यापवादः । यद्यधिगन्तुमिष्टा विद्या शास्तु शासितुराचार्यस्य सम्यङ्नाऽऽगच्छति तदा तस्यानागमात् अन्यत्र पुरुषान्तरे वृत्तिर्भवत्येव यस्य सम्यगागच्छति । (३)येषामाचार्य- विधिप्रयुक्तमध्ययनं तेषामेतम्रोपपद्यत' इत्यवोचाम ॥ २६ ॥ अन्यत्रोपसङ्ग्रहणादुर च्छिष्टाशनाच्चाssचार्यवदाचा- यंदारे वृत्तिः ॥ २७ ॥ अन्यत्रेत्युभयोश्शेषः । आचार्यवदाचार्यदारे वृत्तिः कर्तव्या । कि- १. तदेव इति ख पु. २. तदाचार्याय इति ख पु. ३ येषामित्यायनोचामत्येन्तः पाठो नास्ति ख. पुस्तके