पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.२)क, ७. - उत्तिष्ठेतूष्णों वा ॥१॥ उत्तिष्ठेत् तूष्णी वा। विकल्पः । आमन्येति लिङ्गात्(१)उत्थाया. प्याचामनाचार्यसकाश एवाऽऽचामेत् ॥ १ ॥ नापपर्यावर्तेत गुरोः प्रदक्षिणीकृत्याऽपैयात् ॥ २॥ उत्थाय कार्यबत्तया गन्तुमिच्छन् गुरोरप अपसव्यं न पर्यावर्तेत । किंतु प्रदक्षिणीकृत्याऽऐयात् ॥ २॥ न प्रेक्षेत नग्न स्त्रियम् ॥ ३॥ यां प्रेक्षमाणस्य मनसो विकारो भवति तां नम्नां स्त्रिय नेक्षेत ॥ ३ ॥ (२)ओषधिवनस्पतीनामाच्छिद्य नोपजिभेत् ॥ ४॥ ओषधयः फलपाकान्ताः । वनस्पतयो ये पुष्पैविना फलन्ति । वीरुद्: वृक्षाणामप्युपलक्षणम् । तेषां पत्रपुष्पाण्याच्छिद्य नोपजिभ्रेत् । 'आच्छिद्ये तिवचना(३)धाकृच्छिकामाणे न दोषः ॥ ४॥ उपानही छत्रं थानमिति वर्जयेत् ॥ ५ ॥ यान शकटादि । इतिशब्द एवंप्रकाराणामुपलक्षणार्थः । तत्र गौतम:- (४)वर्जयेन्मधुमालगन्धमाल्यदिवास्वप्नाजनाभ्यजनयानोपानच्छत्र- कामक्रोधलोममोहवादवादनस्नानदन्तधावनहर्षनृत्तगीतपरिवादभयानी- ति ॥ ५॥ न स्मयेत ॥६॥ स्मितं न कुर्यात् ॥ ६॥ यदि स्मयेताऽपिगृत्य स्मयेतेति हि ब्राह्मणम् ॥ ७॥ यदि हर्षातिरेकं धारयितुं न शक्यते अपिगृय हस्तेन मुखं पिघाय स्मयेत इति ब्राह्मणं न स्मयते' स्थारभ्य ।। ७ ॥ १. उत्थायाप्याचमन न कुर्यात् , आचार्यसमीप एवाचामेत् । इति. ख. पु. २. "अर्थतत् ब्रह्मचारिण- पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्य गन्ध प्रच्छिय नोपाजनेत् तेन त पुण्यं गन्धमवरुन्धे” इति गोपथब्राह्मणम् । (गो. बा १. २.२) ३. यादृच्छिक गन्धप्रहणे न दोषः इति ख. पु. ४. गो. ध.२.१३.