पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिधर्माः] उज्वलोपेते प्रथमः प्रश्नः । चार्यसकाशे स्वासित्वा गमनायोतिष्ठति तदाऽनूत्थानमपि न कर्तव्य म् । यद्यप्यसौ तस्य(१)आचार्यस्य मातुलादिः गुरुः स्यात् । (२) आचार्य- प्राचार्यसन्निपात' इति वक्ष्यति। तेनैव ग्यायेन(३)मातुलादिष्वपि प्रसङ्के देशात्त्वासनाच्च संसपेत् ॥ ३२ ॥ किं तु देशादासनाच्च ससर्वतस्य सम्मानार्थम् ॥ ३२ ॥ नाम्ना तदन्तेवासिनं गुरुमप्यात्मन इत्येके ॥ ३३ ॥ तस्याचार्यस्यान्तेवासिन नाम्नैव कीर्तयेत् 'यज्ञशमन्नि' ति । यद्यध्यसा. बात्मनो गुरुभवति इत्येवमेके मन्यन्ते । स्वपक्षस्तु गुरोनीमग्रहणं न कर्तव्यमिति ॥ ३३॥ यस्मिस्त्वनाचार्यसम्बन्धागौरवं वृत्तिस्त- स्मिन्नन्धस्थानीयेऽप्याचार्यस्थ ॥ ३४ ॥ यस्मिस्तु पुरुषे शिभ्याचार्यभावमन्तरेणापि विधाचारित्र्यादिना लौकिकानां गौरवं तस्मिन्नन्वस्थानीये ऽण्याचार्ये या वृत्तिस्सा कर्तव्या। अन्धस्थानीयोऽप्यनन्वस्थान्येव ॥ ३४ ॥ भुक्त्वा चास्य सकाशे नानूस्थापोच्छिष्टं प्रयच्छेत् ॥ ३५ ॥ आचार्यस्य भुञ्जानस्याऽभुजानस्य वा सकाशे भुक्त्वा अनूत्थाय छान्दसो दीर्घः । उत्थानमकृत्वा उच्छिष्टं न प्रयच्छेत् (४) आर्याय वा पर्यवध्या'. दिति यविहितम् ॥ ३५ ॥ आचामेवा ॥३६॥ आचमनमप्यनुत्थाय न कुर्यात् ।। ३६ ॥ किं करवाणीत्यामन्य ॥ ३७॥ आचम्य किं करवाणीति गुरुमामध्य ॥ ३७ ।। इत्यापस्तम्बधर्मसूत्रे प्रथमप्रश्ने षष्ठी कण्डिका ।। १. माणवकस्य इति क. पु. २. आप० ध० १.८, १९ पूर्जा पक्ष्यतीति ख० पु. ३, मातुलादिप्रसङ्के इति क० पु. ४, आप.ध.१.३.४०,