पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः ॥ भूमिका ।। इदमिदानी श्रीमदापस्तम्बमहर्षिप्रणीतं धर्मरसूत्रं श्रीमिश्रहरदत्तप्रणी- तया उज्वलाख्यया वृत्त्या समुज्वलितं मुद्रयित्वा प्रकाशं प्रापय्य प्रेक्षावतां चक्षुर्गोचरतामापाद्यते । अन्थोऽयं बहुत्र बहुधा मुद्रितोऽपि एतर्हि दौर्लभ्य- मेवाऽऽसाद्य एतदधीतिबोधाचरणप्रचारकाणा छात्राणामध्यापयितॄणां च कामपि कष्टामेव दशामापादयन्नवर्तत । तदिदं दुःखं दूरीकर्तुकामेन चौखम्बासंस्कृतपुस्तकालयाधिपतिना सुरभारतीसर्वनकफलमात्मजीवितमाषा- दयता श्रेष्ठिवर्येण श्रीजयकृष्णदासगुप्तमहोदयेन ग्रन्थस्याऽस्य पुनस्संस्क- रणे कृतमतीभूय एतत्संशोधनार्थमावामभ्यर्थितौ । आवाभ्यामपि तञ्चिन्तितं साधु मन्वानाभ्यां कार्यमेतत्स्वीकृत्य, अध्ययनाध्यापनाद्यवशिष्टेऽल्पी- यसि काले यथामति परिशोध्य प्रकाशं नीतोऽयं ग्रन्थः । एतद्वन्थसंशोधनार्थ अधोङ्कितान्यादर्शपुस्तकानि समुपयोजितानि- (१) कुम्भघोणे नागराक्षरेषु मुद्रितं मदीयं पुस्तकमेकम् । (२) मुम्बय्यां Dr बूलर् महाशयेन मुद्रित विश्वविद्यालयीयं पुस्तकं द्वितीयम् । ( ३ ) अस्मन्मातुलगृहादानीतं ग्रन्थाक्षरेस्तालपत्रेषु लिखितं तृतीयम् । (४) पण्डितप्रवरश्रीविद्याधरशर्ममहोदयानां हस्तलिखितं पुस्तकं चतुर्थम् । (५) मैसूरपुरे देवनागराक्षरेषु मुद्रितं सरस्वतीभवनाल्लब्धं पुस्तकं पञ्चमम् । ( ६ ) महीशूरपुर एव तैलङ्गाक्षरेषु मुद्रित षष्ठम् । (७) दक्षिणदेशस्थसुन्दरगिरि समाख्यग्राम (नल्लूर) वास्तव्यानां श्रीमता पं० कल्याणसुन्दरशास्त्रिणां ग्रन्थाक्षरैस्तालपत्रेषु लिखितं सप्तमम् । (८) श्रीमतामाचार्यध्रुवमहोदयाना पुस्तकमांग्लभाषानुवादरूपमष्टमम् ।