पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [(प.२.)क. ६. बहवस्तु शिष्या यथावकाशमुपसीदेयुः ॥ २५ ॥ तिष्ठति च नाऽऽसीतानासनयोगविहिते ॥ २६ ॥ आसनयोग आसनकल्पना। आसनयोगेन विहितस्तम्भावित आस- नयोगविहितः । आसनयोगेनाऽसम्माबिते आचार्य तिष्ठति सति स्वयं नाऽऽसीत।॥ २६॥ आसीने च संविशेत् ॥ २७ ॥ (१) अशयनयोगविहिने' इति पूर्वानुसारेण गम्यते । शयनयोगेना. सम्भावित आचार्य आसीने स्वय न संविशेत् न शयीत ॥ २७ ॥ चेष्टति च चिकीर्षस्तच्छक्तिविषये ॥ २८ ॥ व्यत्ययेन परस्मैपदम् । आचार्य चेति सति स्वयमपि तच्चिकीर्षन् स्यात् । किमविशेषेण, ? शक्तिविषये । यद्याचार्येण क्रियमाणमात्मनश्श. तर्विषयो भवति । 'चिकीर्ष निति सन्प्रयोगादिच्छामेव प्रदर्शयेत् ना च्छिद्य कुर्यात् । प्रदर्शितायां विच्छायामाचार्यश्च दनुजानीयात् । कु यात् । अशक्तिविषये तु नेच्छापि प्रदर्शयितव्या । चिकीर्षदिति युक्तः पाठः॥२८॥ न चास्य सकाशेऽन्वक्स्थानिन उप- सगृह्णीयात् ॥ २९ ॥ आचार्यव्यतिरिक्ता गुरवोऽन्वक्स्थानिन इति स्मातौ व्यवहारः । आ. चार्य. श्रेष्ठो गुरूणाम् । तमपेक्षयान्वक्यानं पदमेषामिति कृत्वा । आचार्य स्य सन्निधौ अन्वक्स्थानिनं नोपसगृह्णीयात् ॥ १९ ॥ गोत्रेण वा कीर्तयेत् ॥ ३० ॥ न चैनमन्वयस्थानिनं गोत्रेण अभिजनकुलादिना वा कीर्तयेत् न स्तुवीत भार्गवोऽयं महाकुलप्रसूत इति ।। ३० ।। न चैनं प्रत्युत्तिष्ठेदनुत्तिष्ठेद्रा(२)पि चेत्तस्य - गुरूः स्यात् ।। ३१ ।। प्रत्युत्थानमप्यस्य न कर्तव्यमाचार्थस्य सकाशे । यदा पुनरसावा. १. आसनयोग इति क. पु. २, अपि चेत्यादि सूत्रान्तरं. ख, च. पु।