पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥ आपस्तम्बधर्मसूत्रे (प.१)कं.५. समीपे तिष्ठन् गुरोः प्रातरभिवादनमभिवादयीत-'असावह भो' इति सावित्यत्राऽऽत्मनो नामनिर्देशः, यथा-'अभिवादये शर्माऽहं भो' इति ॥ १२॥ समानग्रामे च वसतामन्येषामपि वृद्धतरः । प्राक्प्रातराशातू ।। १३ ।। अन्येषामप्याचार्यव्यतिरिक्तानाम् प्राक्प्रातराशात् प्रातर्भोजनात्माक् प्रातरभिवादमाभिवादयीत, ते चेत् समाननामे बसन्ति ॥ १३ ॥ प्रोष्य च समागमे ।। यदा स्वयं प्रोष्य समागतो भवति, आचार्यादयो वा तदाऽप्यभिश. दांत । इदं नैमित्तिकम् । पूर्व नित्यम् ॥ १४ ॥ अथ कास्यम्- स्वर्गमायुश्चेपसन् ॥ १५॥ अभिवादयत्तित्येव ॥१५॥ अभिवादनप्रकारं वर्णानुपूज्र्येणाऽऽह- दक्षिणं बाई श्रोत्रसमं प्रसार्य ब्रामणोऽभिवाद- यीतोरस्समं राजन्यो मध्यसमं वैश्यो(१) नीचे. इशद्रः प्राञ्जलि ॥१६॥ ब्राह्मणोऽभिवादयमानः आत्मनो दक्षिण बाहु श्रोत्रसम प्रसार्याभिवादशीत । उरस्समं राजन्यः । दक्षिणं प्रसार्याभिवादयीतेत्यत्रानुवर्तते । एवमुचरयो- रपि । मध्यसममुदरसमम् । ऊरुसममित्यन्ये । नीचैः पादसम शूनोऽभिवा. दयीत । प्राञ्जलि यथा भवति तथा अभिवादयति । अर्लि करवेत्यर्थः । प्राञ्जलिरिति युक्तः पाठः ॥ १६ ॥ प्लावनं च नाम्नोऽभिवादनप्रत्यभिवादने च पूर्वेषां वर्णानाम् ॥ १७ ॥ अभिवादनस्य यत्प्रत्यभिवादनं तत्राभिवादयितुर्नाम्नः प्लावनं कर्तव्यम् प्लुतः कर्तव्य इत्यर्थः । पूर्वेषां वर्णानां शुद्रजितानामभिवादयमानानाम् । १... नोवैशादः ॥ १६॥ प्राञ्जलि ॥ १७ ॥ इति पाठः क. ध. पु.