पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अभिवादनम् ] उज्वलोपेते प्रथमः प्रश्नः ।' र्षन् मनसा निर्दयेन शिवेन वा ध्यायति-इस्थमिदमस्याऽस्त्वित्ति, तथैव तद्भ - वति । तथा यत्किञ्च लङ्कल्पयन्वाचा (१)क्रूरया मधुरया वा पाह- 'इत्थमिदमस्यास्त्विति, तथैव तद्भवति । एव यत्किञ्च सङ्कल्पयन् चक्षुषा घोरेण वा मैत्रेण वा अभिविपश्यति तथैव तद्भवतीत्युपदिशन्ति धर्मशाः॥ ८॥ अवश्य धर्मयुक्तेनाध्येतव्यामित्युक्तम् । इदानी ते धर्मा लक्षणतस्त्रि- विधा इत्याह- गुरुप्रसादनीयानि कर्माणि स्वस्त्ययनमध्ययनसं.. वृत्ति(२)रिति ॥ ९॥ यैरनुष्ठितैः गुरु प्रसीदति तानि गुरुप्रसादनीयानि पादप्रक्षालनादी. नि कर्माणि । स्वस्तीत्यविनाशिनाम । तत्प्राप्तिसाधन स्वस्त्ययनम् । तश्च त्रिविधंदृष्टार्थमदृष्टार्थमुभयार्थ चेति । दृष्टार्थ बाहुनदीतरणादिनिषेधः। अदृष्टार्थ क्षारादिनिषेधः । उभयार्थ भिक्षाचरणादि । अध्ययनसम्वृत्ति- रधीतस्य वेदस्याऽभ्यासः ॥९॥ अतोऽन्यानि निवर्तन्ते ब्रह्मचारिणः कर्माणि ॥१०॥ एतेभ्यः अन्यानि कर्माणि निवर्तन्ते ब्रह्मचारिणो, न कर्तव्यानीत्यर्थः ॥१०॥ स्वाध्यायधृग्धर्मरुचिस्तपस्च्यूजर्मनुस्सिद्ध्यति । ब्रह्मचारी ॥ ११॥ स्वाध्यायधृक् अधीतस्य(३)बेदस्य धारयिता अविस्मर्ता। धमे रुचि- यस्य स धर्मरुचिः ! तपस्वी नियमेषु तपश्शब्दः तद्वान् । ऋजुः अमायावी । मृदु । क्षमावान् । एवभूतो ब्रह्मचारी सिद्ध्यति सिद्धि प्राप्नोति । उक्ता सिद्धिः (४) अथो यत्किञ्च मनसे 'ति । तत्रोक्तानां पुनर्वचनमादरार्थम् । तदनुष्ठाने फलभूमा, अतिक्रमे च दोषभूमेति तात्पर्यम् ॥ ११ ॥ सदा महान्तमपररात्रमुत्थाय गुरोस्तिष्टप्रातरभि. वादनमभिवादयीताऽसावहं भो, इति ॥ १२ ॥ सदा प्रतिदिनं महान्तमपररात्रं रात्रेः पश्चिमे थाम उत्तिष्ठेत् । उत्थाय व १. घोरया इति. क. पु २. अयं 'इति' शब्द उत्तरसूत्रस्यादौ पठितः क. पुस्तके ३ 'स्वाध्यायस्य' इति क. ख. पु. ४, आप. ध १.५.८.