पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ द्वितीयः पटलः । नियमेषु तपशब्दः॥१॥ आचार्याधीनः स्यादित्यादयो ये नियमाः अस्मिन्ब्रह्मचारिप्रकरणे निर्दिष्टाः, तपशब्दस्तेषु द्रष्टव्यः, न तु कृच्छ्रादिषु ॥ १ ॥ ततिक्रमे विद्याकर्म निःस्रवति ब्रह्म सहाप-. त्यादेतस्मात् ॥ २॥ तेषां नियमानामतिक्रमे विद्याकर्म विद्यामहणं ब्रह्म निरबति गृहीत वेदं निस्सारयति । कुतः, १ एतस्मात् नियमातिक्रमेणाध्येतुः पुरुषान् । न के वलमेतस्मात् । किं ताई ? सहापत्यात् । अपत्येन सह वर्तत इति सहापत्यः (१) वोपसर्जनस्य ति सभावाभावे रूपम् । अपत्यादपि ब्रह्म निःसारयति। यद्यप्यपत्यं नियमातिक्रमकारि न भवति, तथापि पितृदोषादव ततो. ऽपि ब्रह्म निस्सारयति । नियमातिक्रमेण विद्याग्नहण कुर्वतः पुरुषात् सहापत्यात् गृहीतं ब्रह्म निस्सरति, ब्रह्मयशादिषूपयुज्यमानमप्यकि. शिकरं भवतीत्यर्थी विधक्षितः। नवतेश्च सकर्मकस्य प्रयोगो भाष्ये पृष्टः 'सवत्युदकं कुण्डिकेति । अपर आह-(२)तदतिक्रमे नियमातिक्रमे विद्याग्रहणं न कर्तव्यम् । कुतः ? यतो निस्त्रवति ब्रह्म निस्सरतीत्यर्थः, शेषं समानमिति । विद्याकर्म निस्त्रवति ब्रह्म च निस्त्रवतीत्यन्ये । अन्ये च-कुर्वत इत्यध्याहार्थम् । तदतिक्रमेण विद्याकर्म कुर्वतो ब्रह्म निस्त्रवतीति ॥२॥ न केवलमकिञ्चित्करं नियमातिक्रमेण विद्याग्रहणम् , प्रत्युताउन थ. कारीत्याह--- कर्तपत्थमनायुष्यं च ॥ ३ ॥ कर्तशब्देन श्वभ्राभिधायिना नरको लक्ष्यते । पतत्यनेनति पत्यम् । एवंभूतं विद्याग्रहणं नरकपातहेतुर्भवति । अनायुष्यं च अनायुम्करं १. पा.सू. ६ ३.८२. बहुव्राह्यवयवस्य सहशब्दस्य सभावस्स्यद्विकल्पेन इति सूत्रार्थः। २. तदतिकमे विद्याकर्म निस्त्रवतीति नियमातिकमेण विद्यामहणं न कर्तव्यम् , कुतः ? यतो निस्त्रवति ब्रह्मनिस्सारयतीत्यर्थः, इति क. पु.