पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रॉचारिनियमाः] उज्वलोपेते प्रथमः प्रश्नः । ध्यते । स्वप्नकथनं वर्जयेदित्येके ॥ २२ ॥ अथाऽहरहराचार्य गोपायेद्धार्थयुक्तः कर्मभिः ॥ २३ ॥ अथ स्वप्नस्य प्रकृतत्वात् स्वप्नानन्तरं ब्राह्म मुहूर्त उत्थायेत्यर्थः । अहरहः नित्यमाचार्य गोपायेत् रक्षेत् । किं दण्डादि गृहीत्वा ? नेत्याह- धार्थयुक्तैः कर्मभिः । धर्मयुक्तानि कर्माणि समित्कुशपुष्पाहरणादीनि, अर्थ- युक्तानि (१)युग्यघासाहरणादीनि ॥ २३ ॥ (२) स गुप्त्वा संविशन् ब्रूया 'धर्म गोपाय माजूगुपमह मिति ॥ २४ ॥ स(३)ब्रह्मचारी धर्मार्थयुक्तैः कर्मभिर्यावदुस्थानात् यावदस्य संवेश. नात् एवमाचार्य गुप्ता सविशन् शयनं भजन (४) धर्मगोपायमाजूगपमह मितीमं मन्त्रं ब्रूयात् । धर्म गोपायतीति धर्मगोपाय. आचार्यः तमहमाजूगुप. माभिमूख्येन रक्षितवानस्मि, इदानीं तु संविशामीति मन्त्रार्थः। अपर आह-हे धर्म मा मां गोपाय रक्ष यस्मादहं आजूगुपमहमाचार्य. मेतावन्तं कालमिति ॥ २४ ॥ प्रमादादाचार्यस्थ बुद्धिपूर्व वा नियमातिक्रमं रहास . बोधयेत् ॥ २५ ॥ प्रमादोऽनवधानम् । प्रमादात् बुद्धिपूर्व यो आचार्यस्य वा नियमातिमस्त रहदि बोधयेत् । इत्थमयं नियमः पूज्यपादरतिक्रम्यते इति ॥ २५ ॥ अनिवृत्तौ स्वयं कर्माप्यारभेत ॥ २६ ॥ यदि बोधितोऽप्याचार्यस्त तो न निवर्तते, ततः स्वयमवे तस्य कर्त- व्यानि ब्रह्मयज्ञादीनि कर्माण्यारमते कुर्यात् ॥ २६ ॥ निवर्तया ॥ २७॥ १. एधसा हरणादीनि इति घ. पु. २. “स यदहरहराचार्यकुलेऽनुष्ठिते सोऽनुष्ठाय ब्रूयात्-धर्मगुप्तो मा गोपायेति धर्मो हैनं गुप्तो गोपायेति" इति गोपथब्राह्मणम् (गो. बा. १. २. ४.) ३. न्याय्यादुत्थानान्याय्याच संवेशनात , इति क. ख. पु. अन्यायात्....."दन्या य्याच..... इति. ड पु. ४. यावदुपात्त एवार्य मन्त्रः।