पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिनियमाः] उज्वलोपेते प्रथमः प्रश्नः। प्रवृत्तिन तत्र शास्त्रमस्ति । तदनुवर्तमाना नरकाय राध्यतीति न्यायान्न सङ्कोचिका श्रुतिरनुमीयते इति ॥ १०॥ पितुज्येष्ठस्य च भ्रातुरुच्छिष्टं भोक्तव्यम् ॥ ११ ॥ (१)स्पष्टम् ॥११॥ धर्मविप्रतिपत्ताव भोज्यम् ॥ १२ ॥ . यदि तयोर्धर्माद्विप्रतिपत्तिरपायो भवति ततो न भोज्यम् । यता भुजानस्य ब्रह्मचारिणो धर्मविप्रतिषेधो भवति मधुमालादिमिश्रत्वेन ततो न भोज्यमिति ॥ १२॥ सायं प्रासरुदकुम्भमाहरेत् ॥१३॥ आचार्यस्थ स्नानपानार्थम् ॥१३॥ (२)सदाऽरण्यादेधानाढत्याऽधो निध्यात ॥१४॥ सदा प्रत्यहमरण्यात् न पित्रादिगृहात् एधान् काष्ठानि आचार्यगृहे पाकाद्यर्थमाहरेत् आहृत्य चाऽधो निदध्यात् अधोनिधानमाचार्यपुत्रादिषु बालेषु पतनशङ्कया। अपर आह-आत्मनस्सामिदाधानार्थ(३)मेधाहरण- मिति । उक्त गृह्ये --(४) एवमन्यस्मिन्नपि सदाऽरण्यादधानाहृत्य । इति। तदनुवादनानिधानं विधीयते दृष्टार्थमदृष्टार्थ वेति ॥ १४ ॥ नास्तमिते समिद्धारो गच्छेत् ॥ १५ ॥ अस्तमित आदित्ये समिध आहर्तुं न गच्छेत् ; चोरव्याघ्रादिसम्भवात् । समिद्धार' इति(५) अप कर्मणि चे' ति तुमर्थेऽणप्रत्ययः ॥ १५ ॥ अग्निमिध्वा परिसमूह्य समिध आध्यात्सायं- प्रातर्यथोपदेशम् ॥ १६ ॥ परिसमूहनं परितो मार्जनम् । विप्रकीर्णस्याग्ने(६)रेकीकरणमित्यन्ये । यथोपदेशं यथा गृह्य उक्तं तथा समिध आदध्यात् । गृधे विहितमपि स. १. स्पष्टोऽर्थः इति० म० पु. २. "तस्मात् ब्रह्मचायहरहस्समिध आहृत्य साय प्रातरग्नि परिचरेत, नोपर्युपसादयेत्, अधः प्रतिष्ठापयेत्” (गोप १ २.६.) इति गोपथब्राह्मणम् ॥ ३. इध्माहरणं इति क. ख. पु. ४. आप• गृ० ११. २२. ५. पा. सू० ३. ३. १२. ६. राशीकरणमित्यन्ये इति ख. ग. पु. . आप० ध०४