पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिनियमाः ] उज्वलोपेते प्रथम प्रश्नः । प्रकृतः, तथापि न्याय साम्याच्छिम्यस्यापि विप्रवासे भविष्यति ॥ ४२ ॥ अथ ब्रह्मचारिणो यहं विधातु हविरादीनि सम्पादयति- भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थे ॥ ४३ ।। भैक्ष हविश्येन सस्तुतं कीर्तितम् । तत्र तस्मिन् हविषि आचार्यों देवतार्थे देवताकार्ये तत्प्रीत्यर्थत्वात्तस्य ॥४३॥ आहवनीयार्थे च ॥ ४४ ॥ तस्य जाटराग्नौ हूयमानत्वात् ॥ ४४ ॥ तंभोजयित्वा ॥ ४५ ॥ इति प्रथमप्रश्ने तृतीया कण्डिका । यदुच्छिष्टं प्राइझाति अनुवादेषु सर्वत्र विधिः कल्प्यते । तं भोजयेत् । भोजयित्वा तस्थोच्छिष्टं प्राश्नीयात् प्राश्नाति । अकारोऽपाउछन्दलो वा, 'शादिति चुत्वप्रतिषेधात् ॥ ४५ ॥ १॥ हविच्छिष्टमेव तत् ॥ २ ॥ इडाभक्षणादिस्थानीयमित्यर्थः ॥ २॥ यदन्या निद्रव्याणि यथालाभमुपहराति दक्षिणा एव ताः॥ ३॥ यदन्यानि व्याणि गवादीनि भिक्षाचरणे लब्धानि समिदादीनि च स्वयमाहतालि यथालाभमुपहरति दक्षिणा एव ता.दक्षिणासामानाधिकरण्या- त्ता इत्युक्तम् ॥३॥ स एष ब्रह्मचारिणो यज्ञो नित्यप्रततः ॥ ४॥ स एष एवंभूतो यज्ञः ब्रह्मचारिणो नित्यं प्रतायते । एवं कुर्वता ब्रह्मचा रेणा यज्ञ पक नित्यं क्रियत इत्यर्थः न चास्मै श्रुतिधिप्रतिषिद्धमुच्छिष्टं दद्यात् ॥ ५ ॥ अस्मै शिध्याय आचार्यः श्रुतिविप्रतिषिद्ध शास्त्रविप्रतिषिद्धमुच्छिदं न दद्यात ॥५॥