पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूचे [ (प.१.)कं.३, सर्व लाभमाहरन् गुरन् सा इशारमत्रेण भिक्षाचई चरेझिक्षमाणोऽन्यत्राऽप पात्रेभ्योऽभिशस्लाच ॥२२॥ अपपात्रा प्रतिलोमजा रजकादयः। अपगतानि हि तेषां पात्राणि पाकाधर्थानि चतुर्भिवणेसह ! अभिशस्तान् वक्ष्यति 'अथ पतनीयानी' स्यादिना तातुभयान् वर्जयित्वा अन्य भिक्षेत । तत्र मिक्षमाणसर्व लाभ यञ्च यावञ्च लब्धं गोहिरण्यादि तत्ल (१)ममायया गुरवे आह. रेत् । एवमहरहः कुर्वन् सायं प्रातरमत्रेण न हस्तादिना भिक्षाचर्य भिक्षा- चरणं चरेत् कुर्यात् । 'लार्य प्रान' रिति वचनान्न साये गृहीतेन प्रातरा शः, नापि प्रातगृहीतेन सायमाश. ।। २५ ॥ अथ भिक्षाप्रत्याख्यानं निन्दितुं ब्राह्मभमाकृष्यते- स्त्रीणां प्रत्याचक्षाणानां समाहितो ब्रह्मचारीष्ट दत्तं हुतं प्रजा पशून ब्रह्मवर्चसमन्नाद्यं कृते । तस्मादु ह चै ब्रह्मचारिसङ्घ चरन्तं न प्रत्याचक्षीतापि हैष्वेवंविध एवंनतः स्थादिति हि(२) ब्राह्मणम् ॥ २६ ॥ व्याख्यातः समाहितः। समाहितो ब्रह्मचारी याभिः स्त्रीभिः भिक्षमाणः प्रत्याख्यायते तासां प्रत्याचक्षाणाना स्रोणामिष्टं यागैरार्जित धर्म, दत्त दानेला र्जितं हुतं दर्विहोमेश्च गाईसर्जित सर्वमेव धर्म घड्ते आच्छिनत्ति ; यस्मादेवं तस्मात् ब्रह्मचारिसङ्घ चरन्त न प्रत्याचक्षीत । उ ह वा इति निपाता धाक्यालङ्कारार्थाः । अपिहशब्दो कदाचिदित्येतमर्थ द्योतयतः । एषु सङ्घीभूतेषु ब्रह्मचारिषु कदाचिदेवविध समाहित एवव्रत• 'अथ ब्रह्म चर्याविधि' रित्यारभ्य यान्युक्तानि तद्वान् ब्रह्मचारी स्यात् । (३)सम्भा- वने लिङ् । सम्भवेत् । तस्मान्न प्रत्याचक्षीतेत्येवं ब्राह्मण भवतीति ॥२६॥ नानुमानेन अक्षमुच्छिष्ठं दृष्टश्रुताभ्यां तु ॥ २७ ॥ १. अमाययेति. नास्ति क. पु. सर्वमादाय इति ग. पु. २."ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्य चारेष्पति बतास्मै भिक्षा इति गृह- पतिबूत बहुचारी गृहपरन्या इति किमस्या ओताददत्या इति, इष्टापूर्तसुक्तद्रविणमवरु भ्यादिति, तस्मात् ब्रह्मचारिणेऽहरहमिक्षा गृहिणीमामेयुरिष्टापूर्तसुकृतद्रविणमवसन्ध्या दिति" इति गोपथब्राह्मणम् । (गो. ना. १.२, ६) ३. सम्भावनाया लिड्. इति. ख. पु.