पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [(प.११.)क.२९. दकादेरादाने कामकृतेऽप्यदण्डशः । तथा भोजनमप्याददानः प्राणसंशये ज्द दण्डया इति ॥१३॥ प्रासानिमित्त दण्डाकर्मणि राजानमेनस्पृशति ॥ १४ ॥ प्राप्त दण्डनिमित्तं यस्य तस्मिन् पुरुष दण्डाकर्मणि इण्डस्याऽकि- थायां यदि दद्ययार्थलोमेन वा प्राप्तदण्ड न कुर्यात् तदा तदेनो राजान- मेव स्पृशति ।। १४॥ इत्यापस्तम्बधर्मसुत्रवृत्ती द्वितीयप्रश्ने ऽष्टाविंशी कण्डिका ॥ २८ ॥ ननु(१) शाफलं प्रयोक्तरि, तत्कथमन्यकृतमेनोऽन्यं स्पृशतीति, बहुविधत्वात् कर्तृभेदस्येत्याह- प्रयोजयिता मन्ता कति स्वर्गनरकफलेषु कर्मसु भागिनः॥ १॥ धर्ममधर्म का प्रकुर्वाणं यः प्रयुक्त-इदमित्यं कुर्विति, स प्रयोजयिता । स चाऽनेकप्रकार:-आझाएकोऽभ्ययिता अनुग्राहक इति । भृत्यादे निकृष्टस्य प्रवर्तना आज्ञा । गुर्वादेरामध्यस्य प्रवर्तनाऽभ्यर्थना । अनुग्रहो द्विविधः--उपदेशस्तत्लधर्माचरणं चेति । तत्र य इत्थमर्थमुपदिशति त्वं शत्रुमित्थं व्यापाइय, धर्माजनेऽय तेऽभ्युपाय इति स उपदेष्टा । यः पुनः केनचिजियोलितं पलायमानं वा निरुणद्धि निरुद्धश्च हन्यते स निरोद्धाऽनुग्राहकः । मन्ता अनुमन्ता यस्याऽनुमतिमन्तरेणाऽर्थो न निवर्तते स राजादिको धर्माधर्मयोरनुमन्ता । कर्ता साक्षाक्रियाया निर्वर्तकः । एते त्रयोऽपि स्वर्गफलेषु नरकफलेषु च कर्मसु धर्मेम्वधर्मेषु च भागिनः फल स्यांशभागिनः अंशभाजः । सर्वेषां च यथाकथंचित् कर्तृत्वम् ॥१॥ यो भूय आरभते तस्मिन् फलविशेषः ॥ २ ॥ तेषु प्रयोजकादिषु यो भूय आरभते यस्य ब्यापारोऽर्थनिवृत्चावधि- कमुपयुज्यते तस्मिन् फलविशेषो भवति ॥२॥ यद्यप्येवम्--- कुटुम्बिनौ धनस्येशाते ॥ ३ ॥ कुटुम्बिनी दम्पती । तो धनस्य परिग्रह विनियोगे च ईशाते । पद्य १. पूर्वमीमांसासूत्रस्या ( जै. सू. ३. ७. १८.) नुवादोऽयम् ।