पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उज्वलोपेते द्वितीया प्रश्नः । यो वर्णाश्रमायुक्तानियमानतिकामति तं नियमातिक्रमिणमन्य दा प्रति- षिद्धानां कर्तारं रहसि बन्धयेत् निगलितं निरुध्यात् ॥ १८॥ आसभापत्तेः ॥ १९॥ यावदसौ नियमान् प्रतिपत्स्ये प्रतिषिद्धेभ्यो निवर्तिप्य इति क्यान् ॥ १९॥ असमापत्तो नाश्थः ॥ २० ॥ यद्यसौ दीर्घकालं निरुद्धोऽपि न समापयेत, ततो नास्थः निर्वास्यः२० आचार्य ऋत्विक्स्नातका राजति त्राणं स्युरन्यत्र वध्यातू॥ २१॥ यदि वण्डे प्रवृत्त राजानमाचार्यों बूयात-अहमेनमतः परं वारयि. यामि मुच्यतामयामिति । अतोऽङ्गदण्ड प्राप्तेऽर्थदण्डम् , अर्थदण्डे प्राप्त ताडनेम् , ताडने प्राप्त धिग्दण्डमिति कृत्वा तदशे विसृजेत् । एवम. विजि । ऋत्विगाचार्यों राशस्वभूतो न दण्ड्यस्य । स्नातको विद्यावता भ्याम् । राजा अनन्तरादिः। सर्व एते राक्षस्लमान्याः । अतस्ते दण्ड्यस्य त्राणं स्युः। उक्केन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित् । तेऽप्यन्यन बध्यात् यस्य वधानुगुणोऽपराधः न तस्याऽचार्यादयोऽपि त्राणम् । इन्तब्य एव स इति ॥ २१ ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने सप्तविंशी काण्डका ॥ २७ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्राविरचितायामु. ज्ज्वलायां द्वितीयप्रश्ने दशमः पटलः ॥१०॥