पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [(प.१०)क.२७. चतुर्थे सर्थम् ॥ १३ ॥ अत:-चतुर्थे सचिपाने सर्वश्रेष पतति । तमश्च पूर्णद्वादशवार्षिकं कर्तव्य- भ् । तृतीयं नव वर्षाणि । द्वितीये षड्वर्षाणि। एतच प्रतियोगं स्त्रीभेदेन प्रथमदूषकस्य । एकस्यामेव स्वभ्यासे कल्प्यम् । तत्र- (१) यस पुंसः परदारेषु तच्चैनां चारयेद्वतम् , इति स्मरणात् स्त्रिया अपि प्रतियोगं पादः पादः पतति । तदनुरो धेन कल्प्यम् ॥१३॥ जिह्वाच्छेदनं शुद्रस्थाss धार्मिकमाक्रोशतः ॥ १४ ॥ शूद्रह द्विजातीनामन्यतमं धार्मिके(२)स्वकर्मस्थं यद्याक्रोशति निन्दति गहते, तदा तस्य जिल्ला छेत्तव्योति ! मनुस्तु सामान्य नाह- (३) येलाङ्गेनाबरो वर्णो ब्राह्मणस्याऽपरान्नुयात् । तदनं तस्य छेत्तव्यं तन्मनोरनुशासनम् इति ॥ मौतमस्तु-(४) शूद्रो द्विजातीनतिसन्धायाऽभिहत्य च वाग्दण्डपार. व्याभ्यामहं मोच्या येनोपहत्यादिति ॥ १४॥ बाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् ॥१५॥ यस्तु शूद्रो वागादिश्वार्थस्समीभवति, न तु न्यग्भूतः, तस्य दण्डेन ताडने कर्तव्यम् । स दण्डेन ताडयितव्य: । अयमस्य दण्डः ॥ १५ ॥ पुरुषवधे स्तेये भूम्यादान इति स्वान्यादाय वधः ॥१६॥ भूम्यादान परक्षेत्रस्य बलारस्थीकार, पुरुषवधादिषु निमित्तषु शूद्रस्सर्वस्वहरणं कृत्वा पश्चाध्या मारयितव्यः॥ १६ ॥ चक्षुनिरोधस्वेतेषु ब्राह्मणस्य ॥ १७ ॥ ब्राह्मणस्य त्वेतेषु निमिचेषु चक्षुषो निरोधः कर्तव्यः। पन्धादिना चक्षुषी निरोद्धव्ये, यथा यावज्जीवं न पश्यति ।न तूत्पाटाये तव्ये (4)'न शारीरो ब्राह्मणदण्डः। अक्षतो ब्राह्मणो बजे दिति स्मरणात् । 'चक्षुनिरोध' इति रेफलोपश्छान्सः ॥ १७ ॥ नियमातिक्रमिणमन्य वा रहसि बन्धयेत् ॥ १८ ॥ १.म.स्स.११.१७७. २. स्वधर्मस्थ. इति च. पु ३. म. स्मृ.८.१७९. ४. गौ. १२.१. ५. गो. ध, १२.४६.