पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.१०)क.२७, शाः। तस्मात् लगोत्रायैव समाचक्षीतति(१) ॥३॥ तमिम नियोगं दूषयति--- तदिन्द्रियदौर्बल्याद्विप्रतिपन्नम् ॥ ४॥ थाद्यप्येव पूर्व कृतवन्तः, तथाऽपि तदद्यत्वे विप्रतिपत्नं विप्रतिषिद्धम् । कुतः १ इन्द्रियदौर्बल्यात् । दुर्बलोन्द्रिया ह्यधत्वे मनुष्याः। ततश्च शास्त्रन्या- जेनापि भर्तृव्यनिक्रमेऽतिप्रसङ्गस्यादिति ॥४॥ सगोत्रविषयेऽपि यो विशेषस्सोऽपि नास्तीत्याह-- अविशिष्टं हि परत्वं पाणेः॥ ५ ॥ येन पाणिना पूर्वमग्निसाक्षिकं पाणिग्रहीतः कन्यायाः, तस्मात् पा. रन्यो भवति सगोत्रस्थाऽपि पाणिः । यस्मादेवं पाणे. परत्वमविशिष्ट मानसू तस्मादविशेष इति । अविशिष्टमित्यपाठः ।। ५ ।। पाणिरन्यो भवतु, को दोषः ? तहतिक्रमे खलु पुनरुभयोर्नरकः ॥ ६॥ तस्य पाणेर्व्यतिक्रमे उभयोर्दम्पत्योः नरको भवति । खलुपुनरिति प्र. सिद्धिद्योतको निपाती। अतः पत्याऽपि न स पाणिस्त्याज्यः यः पूर्व गृहीतः । माययापि न स पाणिस्त्याज्यो येन पूर्वमात्मानः पा णिर्गृहीतः॥६॥ नियमारम्भणो हि वर्षीथानभ्युदय एवमा- रम्भणाद पत्यात् ॥७॥ आरभ्यतऽजेनेत्यारम्भणः योऽयं दम्पत्योः परस्परनियमः, स आ. रम्भणो यस्य स नियमारम्भणः । एवंभूतो योऽभ्युदयस्ल एवं वर्षीयान् । वृद्धतरः । कस्मात् वर्षीयान् ? पचमुकप्रकारेण नियोगलक्षणेन यदपत्य. मारभ्यते तस्मादेवमारम्भणादपत्याद्वर्षीयानिसि । अपत्यादिति पाठः । आपत्यादिति प्रायेण पठन्ति ॥ ७ ॥ नाश्य आर्यश्शदायाम् ॥ ८॥ आर्यस्त्रैवर्णिका, शूद्रायां परभार्यायां प्रसक्तो राक्षा राष्ट्रान्नाश्यः निर्धास्यः॥८॥ १. "कुलाय कन्या क्वचिद्देशेषु दीयते । गोनजे न केनचिप्यनुभूयते । उक्तं च वृहस्पतिना-अभर्तृका भातृभार्या प्रहणं चातिदूषितम् । कुले कन्या प्रदानं च दशष्व- न्येषु दृश्यते इति" इत्यधिकः पाठ. घ. पु.