पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ आपस्तम्बधर्मसूत्र [(प.९.)क.२४. यदुकं ये पापवतस्त एक ध्वंसन्ति न परान हिंसन्तीति तदर्थरू पमेतेन बश्यमाणेन हेतुना वेदितव्यम् ॥ ११ ॥ प्रज्ञापतेषणामिति सोऽयम् ॥१२॥ प्रजापतेहिरण्यगर्भस्य ऋषीणां च मरीच्यादीनामथं सर्गो देवादिस्तिर्य- गतः। ते चाचस्ता एव स्व स्वे पदे वर्तन्ते । यदि च पुत्राः पापकृतः स्वयं ध्वसमान परामपि ध्वंझयेयुः, तदैतनोपपद्यते---पुण्यकृतः सुखे. नाऽधापि वर्तन्ते इति ॥ १२॥ अनोदाहरणमाह- तत्र ये पुण्यकृतस्तेषां प्रकृतयापरा ज्वलन्त्य उपलभ्यन्ते ॥१३॥ तत्र स्वर्गे थे पुण्यकृतो वसिष्ठादयस्तेषां प्रकृतयश्शरीराणि परा उत्कृष्टाः उक्लन्त्यः दीप्यमाना उपलभ्यन्ते, विवि यथा सप्तर्षिमण्डलम्। श्रूयते च(१) 'सुकता वा एतानि ज्योतीषि, यनक्षत्राणी'ति । इदमपि प्रमाणं न पुत्राणां धसे पूर्वेषां प्रश्वंस इति ॥ १३ ॥ स्यात्तु कर्मावयवेन तपसा वा कश्चित्सशरीरोऽन्त. वन्तं लोकं जयति सङ्कल्पासिद्धिश्च स्थान तु तज्ज्यैष्ठ्यमाश्रमाणाम् ॥ १४ ॥ कर्माचयवन पूर्वार्जितानां कर्मणामेकदेशेन भुक्तशेषेण तपसा वा तीवेण कश्चिदूर्ध्वरेतास्महशरीरेणाऽन्तवन्तं लोकं जयतीति यत्चत् स्यात् सम्भ- वदपि । यश सङ्कल्पादेव सिद्धिस्स्यादिति, तदपि स्यात् न तु तदाश्रमाणां ज्यैष्ठयकारणमिति । तदेव 'मैकाम्यं त्वाचार्या' इत्यय. मेव पक्षः स्थापितः । अन्ये मन्यन्ते-सर्वे आश्रमा दूषिता भूषिताश्च । ततस्तेषु सर्वेषु यथोपेदेशमन्यग्रो वर्तमानः क्षेमं गच्छत्तीत्येतदेव स्थि. तमिति ॥१४॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने चतुर्विशी कण्डिका ॥ १७ ॥ इति चापस्तम्बधर्मसूत्रवृत्ती हरदत्तमिश्रविरचितायां उज्ज्वलायां द्वितीयप्रश्ने नवमः पटलः ॥९॥ १. तै. स. ५.५ १.