पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसत्रे [(प.९.)क.२४ पुनरपि गार्हस्थ्यमेव प्रकारान्तरेण स्तौति-- अशाप्यस्य प्रजातिसम्मृतमानाय आह--प्रजामनु प्रजायसे तदु ते माऽमृतमिति ॥ १ ॥ अथाऽपि अपि च अस्य गृहस्थस्य प्रजापति प्रजासन्तानम् अमृतम् अम. रमणम् आनायो बेद आह हे मयं मरणधर्मन् ! प्रजा जायमानामनु त्व प्रजायसे त्वमेव प्रजारूपेण जायस्ले । तदेव ते मरणशर्मिणः अमृतममरणामिति । नत्व म्रियसे, यतस्त्वं प्रजारूपेण तिष्ठसीति ॥ १ ॥ उपपन्न चैतदित्याह- अथाऽपि स एवायं विरूढः पृथक्प्रत्यक्षेणोपल- भ्यते दृश्यते चाऽपि सारूप्यं देहत्वमे. वाऽन्यत् ॥ २॥ अपि च स एवाऽय पृथरिवरूढः प्रत्यक्षेणोपलभ्यते । स एव द्विधाभूत इव लक्ष्यते । दृश्यते हि सारूप्य द्वयोः। देहमानं तु भिन्नम् । देहत्वमिति स्वार्थिकस्त्वः ॥ २॥ यदि पुत्ररूपेणाऽवस्थान, किमेतावतेत्याह-- ते शिष्टेषु कर्मसु वर्तमानाः पूर्वेषां साम्परायेण कीर्ति स्वर्गच वर्धयन्ति ॥ ३ ॥ ते पुत्राशिष्टेषु चोदितेषु कर्मसु वर्तमाना अवस्थिता. पूर्वेषा पितृपिता. महादीनां साम्परायेण परलोकेन सम्बद्धानां कीर्ति स्वर्ग च बर्धयन्ति-अ स्याऽयं पुत्र एवं कर्मा, अस्याऽय पौत्र इति । स्वर्ग च वर्धयन्ति । कीर्ति मता हि स्वर्गवासश्श्रूयते ॥ ३ ॥ एवमवरोऽचरः परेषाम् ॥ ४॥ एवमनेन प्रकारेण अवरोऽवर परेषां कीर्ति स्वर्गच वर्धयति ॥ ४ ॥ आभूतसम्प्लवात्ते स्वर्गजितः ॥६॥ भूतसम्प्लवो महाप्रलयः 1 आ तस्मात्ते पुत्रिणरूस्वर्गजितो भवन्ति ते च ५ पुनस्सर्गे बीजार्धा भवन्तीति भविष्यत्पुराणे ॥६॥ प्रलयानन्तरं सर्गः, तम संसारख्य बाजार्थाः प्रजाः प्रजापतयो भवन्तीति भविष्यत्पुराणे श्रूयते ॥ ६ ॥