पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गाईस्थ्यत्रैष्टयम् ] उज्वलोपेत दितीयः प्रश्नः । ज्यवयवा विद्या त्रिविद्या त्रयो वेदाः नये पाठत श्वाऽधतश्च वि. दन्ति ते विद्याः । तेषु पक्कज्ञानास्त्रेविद्यवृद्धाः । तेषां (१)वेदशास्त्रविदा वेदा एव प्रमाणम् अतीन्द्रियेऽर्थ इनि, निष्ठा निर्णयः । यथाह भगवान जै. मिनिः-(२) चोदनालक्षणोऽर्थो धर्मः, इति(३) प्रत्यक्षमनिमित्तमिति च। ततश्च तत्र वेदे यानि कर्माणि शूयन्ते, किंलक्षणानि ? ब्रीहियवादिभि- स्सम्बद्धानि "उच्चैः ऋचा क्रियते, उपांशु यजु"त्येवंप्रकाराणि तैरुद्ध आचारः प्रमाण न भवतीति मन्यन्ते । एतदुक्तं भवति-सर्वेषु वेदेषु सासु च शाखासु अग्निहोत्रादीनि(४) विश्वसृजामयनपर्यन्तानि कर्मा- पयेव तात्पर्यतया विधीयन्ते । अतो गाईस्थ्यमेव श्रेष्ठम् । ऊवरेजसा त्वाश्रमास्तद्विरुद्धा नैवाऽऽश्रयणीयाः यदि वेदाः प्रमाणमिति । तथा च गौतमः-- 'ऐकाथम्यं त्वाचार्याः प्रत्यक्षविधानात गार्हस्थ्यस्येति । एवं गार्हस्थ्यं प्रशस्यते ॥९॥ श्मशानानि भेजिर इति निन्दा परिहरति- यतु श्मशानमुच्यने नानाकर्मणामेषोऽन्ते पुरु. षसंस्कारो विधीयते ॥ १० ॥ यत्तु गृहस्थानां श्मशान श्रूयते स एष नानाकर्मणामग्निहोत्रादीना- मन्ते पितृमेधाख्यः पुरुषसंस्कारो विधीयते । न तु पिशाचा भृत्वा श्मशानमेव सेवन्त इति ॥१०॥ कुत इत्याह- ततः परमनन्त्यं फलं स्वर्यशब्दं श्रूयते ॥१२॥ तत. परं श्मशानकर्मणोऽनन्तरम, अनन्त्यमपरिमितं स्वर्गशब्दया- ध्यं फलं श्रूयते-'स एष यशायुधी यजमानोऽजसा स्वर्ग लोकमेती'नि । अनन्त्य स्वयमिति(४) यकारछान्दसः उपजनः अपपाठो वा ॥१२॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने त्रयोविंशी कण्डिका ॥२३॥ १. वेदशास्त्रार्थविदा इति छ. पु. २ जै. सू १. १. २. ३. जै सू १. १.४. ४. सहस्रवत्सरसाध्य सत्र विश्वसृजामयनम् । अत्र संवत्सरशब्दो दिनपर इति मीमांसका । खू. मी. ६. ७. १३ ५. यकारोपजनच्छान्दसः इति भवितुं युक्तम् ।