पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचर्यादिप्रशंसा उज्वलोपेत द्वितीयः प्रश्नः । भूयांसं वा नियममिच्छन्नन्वहमेच पात्रेण सायंप्रातरर्थनाहरेत् ॥ १ ॥ इदमेकाकिनो वानप्रस्थस्य ! भूयासं नियममिच्छन्न सस्य सञ्चिनुयात् । कि तर्हि ? अन्वहमेव पात्रेण येनकेनचित सायप्रातश्चाऽर्थमशनीयमात्रमाहरेतू वानप्रस्थेभ्य एव ॥१॥ एवं कियन्तचित्कालं वर्तयित्वा- ततो मूलैः फलैः पर्णैस्तृणैरिति वर्तयंश्चरेदन्ततः प्रवृत्तानि ततोऽपो वायुमाकाशमित्यभिनि। श्रयेत् । तेषामुत्तर उत्तरस्संयोगः फलतो विशिष्टः ॥२॥ सर्व गतम् ॥ २॥ निरूपिता आश्रमाः। अथेदानी पक्षप्रतिपक्षरूपेण तेषामेव प्राधा. स्यमप्राधान्यं च निरूप्यते-- अथ पुराणे श्लोकावुदाहरन्ति- अष्टाशीतिसहस्राणि ये प्रजामीषिर ऋषयः । दक्षिणेनाऽयम्णः पन्धानं ते श्मशानानि भेजिरे ॥ ३ ॥ अष्टाशीतिसहस्राणि ये गृहस्था ऋषयः प्रजामीषिरे प्रजातिमभ्यनन्दन ते अर्थगो यो दक्षिणेन पन्थाः दक्षिणायनमार्गः तं प्राप्य छान्दोग्योक्तेन (१)धूमादिमार्गेण गत्वा पुनरपि सम्भूय श्मशानानि भेजिरे मरणं प्रतिपेदिरे। जायस्व नियस्वत्याजीवं जीवभावमापेदिर इति गृहस्थानां निन्दा ॥३॥ अष्टाशीतिसहस्राणि ये प्रजां नेषिर ऋषयः । उत्तरे. णाऽयम्णः पन्थानं तेऽमृतत्वं हि कल्पते ॥ ४ ॥ ये(२)तु प्रजाति नाभ्यनन्दन् ते उत्तरायणमार्गेण(३) अचिरादिमागण गत्वा अमृतत्व विभक्तिव्यत्ययः, अमृतत्वाय कल्पते वचनव्यत्ययः कल्पते समर्थास्सम्पद्यन्ते ॥४॥ इत्यूर्ध्वरेतसां प्रशंसा ॥ ५ ॥ १. छा. उ ५ १०.३-६ २. प्रजा. इति च ३छा.उ.५.१०.१,२