पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वानप्रस्थाश्रमः] उज्वलोपेते द्वितीय प्रश्नः । एतेन परं व्याख्यातम् ॥ १७ ॥ परलोके भवमपि दुःस्त्रमेतेन व्याख्यात-न स्वैरचारिणां निवर्तत इति । तस्मात् कर्मभिः परिपक्वकषाय एव प्रशासनननिदिध्यासनैः साक्षा. स्कृतात्मस्वरूपः प्रतिषिद्धेषु कटाक्षमप्यनिक्षिपन्नष्टाङ्गयोसमिरतो मु. च्यत इति । अत्र बोधायनः(१)--एकदण्डी त्रिदण्डी वेति । गौतम (२)-'मुण्डश्शिखी वेति ॥ १७ ॥ अथ वानप्रस्थः॥ १८॥ अनन्तरं वानप्रस्थाश्रम उच्यते॥ १८॥ अत एव ब्रह्मचर्यवान् प्रव्रजति ॥ १९ ॥ प्रव्रजति प्रकर्षेण ब्रजति अपुनःप्रवेशाय वनं प्रतिष्ठिन इति । तथा च मौतम (३)- 'श्राम चन प्रविशेदिति । गतमन्यत् , उत्तरं च ॥१९॥ तस्योपदिशन्त्येकानिरनिकेतस्स्थादशोऽशरणो मु. निखाध्याय एवोत्सृजमानो वाचम् ॥ २० ॥ कः पुनरेकोऽग्निः न तावदोपासना ,ब्रह्मचारिशत् । तस्माल्लौकि- केनौ यथापूर्व सायंप्रातस्तमिध आदध्यादित्यर्थो विवक्षितः । अपर आह-श्रामण केनानिमाधाये' ति गौतमः । अस्यार्थ:-श्रा- मणकं नाम वैखानसत्रम् । तदुक्तेन प्रकारेण एकोऽग्निराधेयः । तस्मिन् सायमातरग्निकार्यमिति । (४)तथा च बौधायन:-'वानप्रस्थो वैखान- सशास्त्रसमुदाचारो, वैखानसो बने मूलफलाशी तपशीलस्तवने - दकमुपस्पृशन् श्रामणकेनाऽग्निमुपसमाधायेत्यादि । अन्यगतम् ॥२०॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्वितीयप्रश्ने एकविंशी कण्डिका ॥ २१ ॥

  • एतचितानन्तरं अत्र यदुदाहृतं 'झानेन सर्व दक्षत' इति तत्र ज्ञानदशायाः प्रागा-

जितानि कर्माणि प्रायश्चित्तेन ज्ञानेन वा दह्यन्त इत्युच्यते, न पुनमनदशायां स्वैरचारोऽनु. ज्ञायते । यस्य हि स्वशरीरेऽपि वीभत्सा स कथं पश्वादिभिरविशेषत्रीसङ्गमादौ प्रवर्तत" इति भागः क. पुस्तक एवास्ति अधिकपाठतया परिगणितः व. पुस्तके टिप्पण्याम् १. बौ. व. २. २. १०.४०. २. गो. ध ३.२२. ४. तथा च बौधायनः इत्यादिनन्यो नास्ति इच. पुस्तकयोः । बौ.५.२.६,१६.१५, आप० ध०३५