पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.८)क.२०० द्वितीये तिथ्ये प्रा द्वौ भोजयेत् । अन्यत्समानम् । एवमातृतीयात् ॥५॥ श्रीस्तृतीये ॥ ६ ॥ तृतीये तिष्ये त्रीन् भोजयेदाचतुर्थात् ॥ ६ ॥ एवं संवत्सरमभ्युञ्चयेन ॥ ७ ॥ एवमेतत्कर्म यावत्सवत्सरः पूर्यते तावत् कर्तव्यम् । ब्राह्मणभोजन चाऽभ्युञ्चयेन भवति । चतुर्थीप्रभृति चस्वारः, पञ्चमप्रभूति पञ्चेत्यादि। एवं कृते फलमाह - महान पोषं पुष्यति ॥ ८॥ महत्या पुष्टया मुक्तो भवति ॥ ८ ॥ आदित एवोपचासः ॥ ९ ॥ उपवासस्वादित एव पुष्यो भवति । न प्रतिषुभ्यम् ॥ ९॥ आत्ततेजसा भोजनं वर्जयेत् ॥ १० ॥ आततेजांसि तवाजिनादीनि । तानि नोपभुञ्जीत ॥ १० ॥ भस्मतुषाधिष्ठानम् ॥ ११॥ बजेधेदित्येव । भस्मतुषांश्च नाऽधितिष्ठेत् नाऽऽकामेत् ॥ ११ ॥ पदा पादस्य प्रक्षालनमधिष्ठानं च वर्जयेत् ॥ १२ ॥ एकेन पादेन पादान्तरस्य प्रक्षालन अविष्टानं च वर्जयेत् न कुर्यात् ॥१२॥ प्रेङ्खोलनं च पादयोः ॥ १३ ॥ प्रेजोलन दोलनमितस्ततश्चालनम् ॥ १३ ॥ जानुनि चाऽत्याधानं जवायाः ॥ १४ ॥ एकस्मिन जानुनि इनरस्या जङ्गया. अत्याधानमवस्थापनं च वर्जयेत् । नश्च नलवादनः ॥ १५ ॥ स्पष्टम् ॥१५॥ स्फोटनानि चाऽकारणात् ॥ १६ ॥ पर्वसन्धीनां स्फोटनानि वर्जयेत्तू अकारणात, कारणं श्रमवातादि । वादनस्फोटनानीति समासपाठेऽप्येष एवार्थः ॥ १६ ॥