पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुष्टिकामप्रयोगः ] उज्ज्वलोपेते द्वितीयः प्रश्नः। मासि श्राद्ध तिलानां द्रोणंद्रोणं येनोपायेन शक्नुयात् तेनोपयोजयेत् ॥ १ ॥ येनोपायेनोपयोजयितुं शक्नुयात् अभ्य, उद्वर्तने, भक्ष्ये, भोज्ये चेति तेनोपायेन मासिधा तिलानां द्रोणं द्रोणमुपयोजयेत् । तत्रैकैकस्य ब्राह्म- णस्थतिलानां द्रोण द्रोणमुपयोजयितुमशक्यत्वात लनुदितानुपयोजये त् । द्रोणंद्रोणमिति वीप्सावचनं तु प्रतिमालिश्राद्धमुपयोजनार्थमित्ति केचित् । अन्ये तु एवंभूताः प्रबलाः प्रयत्नेनान्विष्य भोजयित. व्या इति ॥१॥ समुदेतांश्च भोजयेन्न चाऽतद्गुणायोच्छिष्टं दद्युः ॥२॥ व्याख्यातमिदम् । दयुरिति बहुवचनं तथाविधकर्तृबहुत्वापेक्षम् । वचनव्यत्ययो वा ॥२॥ अथ पुष्टिकामस्यैवाऽपरः प्रयोग आ पटलसमाते:- उदगयन आपूर्यप्राणपक्षस्यै करात्रमधरायमुपोष्य ति. ध्येण पुष्टिकामा स्थालीपाकं श्रपयित्वा महाराज- मिष्ट्वा तेन सर्पिष्मता ब्राह्मणं भोजयित्वा पुष्टयर्थेन सिद्धिं वाचीत ॥३॥ पुष्टिकामः पुरुष एकरात्रावरमुपवासं कृत्वा उदगयन आपूर्यमाणपक्षम्य पूर्वपक्षस्य सम्बन्धिना तिष्येण तस्मिन्नक्षत्रे स्थालीपाकं श्रपयित्वा (१)महाराज वैश्रवणं यजेत । आज्यभागान्ते महाराजाय स्वाहेति प्रधान होम | स्विष्टकृदादिजयादयः। परिषेचनान्ते तेन सर्पिष्मता स्थाली- पाकेन ब्राह्मणं भोजयेत् । उत्तरविवक्षयेद वचनम् ! भोजयित्वा सिद्धि वाचयीत पुष्टिरस्त्विति ॥ ३॥ एवमहरहरापरस्मात्तिष्यात् ॥ ४ ॥ एवमिदं स्थालीपाकश्रपणादिलिद्धिवाचनान्तमहरहा कर्तव्यमापरस्मा. तिष्यात् यावदपरस्तिष्य आगच्छति ॥४॥ द्वौ द्वितीये ॥५॥ १ कुबेराय वैश्रवाणाय । महाराजाय नमः। (तै आर. १. ३१.) इति मन्त्रे वैश्रवणस्य महाराजपदेन सामानाविकरण्यात् ।। आप० ध०३४