पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वधर्मसूत्रे [(१.८.)क.१९ दिवाचन भुञ्जीताऽधन्मूल फलेभ्यः ॥ १०॥ मुलानि कन्दा । फलान्यानादीनि । सेभयोऽन्यद्दिवा न भुञ्जीत । तद्भक्ष नदोषः ॥१०॥ स्थालीपाकामुदेश्यानि च वर्जयेत् ॥ ११ ॥ (१)तेन सर्पिमता ब्राह्मण भोजथे' दित्यादौ ब्राह्मणो भूत्वा न भु. जीत अनुदेश्यानि च पितृभ्यो देवताभ्यश्व सङ्कल्पितानि च न भुञ्जीत ॥१॥ सोत्तराच्छादनश्चैव यज्ञोपवीती भुजीत ॥ १२ ॥ उत्तराच्छादनभुपरिधासः । तेन यज्ञोपवीतेन यज्ञोपतिं कृत्वा भुञ्जीत । नाऽस्य भोजने “अपि वा सुत्रमेवोपबीतार्थ" इत्ययं कल्शे भवतीत्येके । समुच्चय इत्यन्ये ॥ १२॥ नैयमिकं तु आई लेहवदेव दद्यात् ॥ १३ ॥ यन्त्रियमेन कर्तव्यं मासि श्राद्धं, तत् स्नेहव्ययुक्तमेव दद्यात् । न शुष्कम् ॥ १३॥ तक विशेषः-- सपिसिमिति प्रथमः कल्पः ॥ १४ ॥ स्पष्टम् ॥ १४॥ अभाव तैलं शामिति ॥ १५ ॥ सर्पिषोऽभावे तैल मालस्याऽआवे शाकम् । इतिशब्दाचान्यदे युक्तम् ॥ १५॥ मधालु चाधिकं श्राद्धकल्पेन सर्पिाह्मणान् भोजयेत् ॥१६॥ मधासु पूर्वपक्षेऽपि श्राद्धविधानेन सर्पिमिश्रमन्नं ब्राह्मणान् भोजयेत् ॥१६॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ द्विनीयप्रश्ने एकोनविंशी कण्डिका ॥ १९ ॥