पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुष्ट्यर्थप्रयोग.] उज्वलोपेते द्वितीयः प्रश्नः। यदेवमुखस्य दक्षिणामुखस्य भोजनं तत् भोक्तुर्या माता तस्या अनायुष्यमनायुष्यकरमिति धर्मशा उपदिशन्ति । तस्मान्मातृमता नेतं कार्यमिति ॥२॥ औदुम्बरश्चमसः सुवर्णनामा प्रशास्नः ॥ ३ ॥ चमु भक्षणे । यत्र चम्यते स चमसो भोजनपात्रम् ! औदुम्बरस्ता- नमयः सुवर्णन मध्येऽलंकृतरस प्रशास्तः प्रशस्तो भोजने ॥३॥ नचाऽन्येनाऽपि भोक्तव्यम् ॥ ४॥ नचान्यनोपि कर्तुः पित्रापि तत्र पाने मोक्तन्यम् । अपिर्धात्वार्था नुबादी । भोकव्य इति पुंलिङ्गपाठेऽप्येष एवार्थः ॥ ४ ॥ यावद्भासं सन्नयनस्कन्दयन्नाऽपजिहीताऽपजिहीत वा कृत्स्नं प्रासं असति सहानुष्ठम् ॥ ५॥ यावदेव सकृत् ग्रसितुं शक्य तावदेव सन्नयन पिण्डीकुर्वन् । अस्कन्द- यन् भूमावन्नलेपानपातयन् कृत्स्न प्रासं असीतेन्यन्वयः । सहाङ्गुष्ठम् आ स्येऽपि प्रासप्रवेशे यथाङ्गुष्ठोऽप्यनुप्रविशति तथा सर्वानेव प्रासानु तेन प्रकारण असति प्रसतो मध्ये क्रियान्तरविधिः-नाऽपजिहीत भोजन पात्रं लव्येन पाणिना न विमुञ्चेन । अपजिहाँत वा विमुश्चेवा । किमर्थमिदम् यावता न प्रकारान्तरं सम्भवति, सत्यं, 'प्रकमात्तु नियम्यत' इति न्यायेन य एव प्रकारप्रथमे भोजने स एवाऽऽन्तादतुष्टातव्य इत्येवर्थ मिदम् ॥ ५॥ न च मुखशब्दं कुर्यात् ॥ ६ ॥ भोजनदशायामिदम् । एवमुत्तरम् ॥ ६॥ पाणिं च नाऽवधूनुचात् ॥ ७ ॥ पाणिरत्र दक्षिणः ॥७॥ आचम्य चोवौं पाणी धारयेदामोदकीभावात् ॥ ८ ॥ भुक्ताऽऽचम्य पाणी ऊवी धारयेत् यावत प्रगतोदको शुष्कोदको ततोऽग्निमुपस्पृशेत् ॥ ९॥ भुक्ता नियमेनाग्निरुपस्प्रष्टव्यः ॥४॥ भवतः॥८॥