पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.७.)क.१७. (१)मातामह मातुलं च स्वस्त्रीय श्वशुरं गुरुम् । दौहित्र(२) विट्पति बन्धुमृधिग्याल्यौ च भोजयेत् ॥ इति॥६॥ अथाप्युदाहरन्ति ॥ ७॥ सम्बन्धिनो न भोज्या इत्यस्मिन्नर्थे धर्मशा वचनमुदाहरन्ति । ७६ सम्भोजनी नाम पिशाचभिक्षा नैषा पितृन् गच्छति नोऽथ देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ।। ८॥ परस्पर भुञ्जतेऽस्यामिति सम्भोजनी । अधिकरणे ल्युट् । नामेदमस्याः पिशाचभिक्षायाः । नैषा पितॄन गच्छति नाऽपि देवान् ! किं तु क्षीणपुण्या परलो. प्रयोजनरहिता सती इहैव चरति लोके यथा गौमतवत्सा गृहास्यन्तर एव चरति न बहिर्गच्छति तदेतत् ॥८॥ तदद्याचष्टे- इहैव सम्भुञ्जतीति दक्षिणा कुलास्कुल विनश्याति ॥९॥ सम्भुञ्जती पररूपरभोजनस्य निमित्तभूता दक्षिणा श्राद्ध दानक्रिया गृहात् गृहं गत्वा इहैव लोके नश्यतीत्यर्थः ॥९॥ अथ बहुषु तुल्यगुणेषूपस्थितेषु कः पारग्राहा ? तुल्यगुणेषु वयोवृद्धः श्रेयान्द्रव्यकृशश्चेप्सम् ॥ १० ॥ यो वयसा वृद्धस तावग्राह्यः । तत्रापि यो द्रव्येण कृशः ईप्सन् लि- समानश्च भवति स ग्राह्यः(३) । अद्रव्यकशोऽपि अवृद्धोऽपि, योस्तु समवाये यथारुचीति ॥ १०॥ पूर्वयुनिवेदनम् ॥ ११ ॥ श्रादिनात्पूर्वेयुरेव ब्राह्मणेभ्यो निवेदयितव्यम्-वः श्राद्धं भविता तत्र भवताहवनीयाथै प्रसादः कर्तब्ध इति ॥ ११ ॥ अपरेईितीयम् ॥ १२॥ अपरेशुः श्राद्धदिने द्वितीयं निवेदनं कर्तव्यमद्य भामिति ॥ १२ ॥ १. म स्मृ.३.१४८, २. विट्पतिर्जामाता। ३. यद्वा वयो वृद्धो ग्राह्योऽद्वव्यकृशोऽपि । द्रव्यकशोऽयवृद्धोऽपीति । इति पाठः च. पु. ।