पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मान्ने [.(प..)क.१६, स्पष्टम् ॥ २१॥ तन्त्र द्रव्याणि तिलमाषा ब्रीहियवा आपो मूलफलानि च ॥ २२ ॥ तत्र श्राद्धे तिलादीनि द्रव्याणि यथायथमवश्यमुपयोज्यानि ॥ २२ ॥ लेहवति स्वेवाऽन्ने तीव्रतरा पितृणां प्रीति धीयांसंच कालम् ॥ २३ ॥ यद्वा लद्वा अन्नं भवतु स्नेहवति तु तस्मिन्नाज्यादिभिरुपसिक्ते पितृ- णां तीव्रतरा प्रष्टतरण प्रीतिर्भवति । सा च द्राधीयास च कालमनुवर्तते ॥ तथा धर्माहतेन द्रव्येण तीर्थे प्रतिपन्नेन ।। २४॥ धर्मार्जितं यद्रव्यं पात्रे च प्रतिपादितं तेनापि तथा तीवतरा पित णां प्रीतिर्दाधीयांस च कालमिति ॥ २४ ॥ संवत्सरं गव्धेन प्रीतिः ॥ २५ ॥ उत्तरत्र मांसग्रहणादिहापि मांसस्य ब्रहणम् । गव्येन मांसेन संवत्सरं पितॄणां प्रीतिर्भवति ॥ २५ ॥ भूयासमतो माहिषेण ॥ २६ ॥ माहिषेण मांसन, अतः सम्वत्सरात् भूयास बहुतरं झालं पितृणां प्रीतिर्भवति ॥ २६ ॥ एतेन ग्राम्धारण्यानां पशूनां मांसं मेध्यं व्याख्यातम् ॥ २७।। एतेन माहिषेण मांसेनाऽन्येषामपि ग्राम्याणामजादीनामारण्यानां च शशा- दीनां मास मेध्य व्याख्यातम्-पितृणां प्रीतिकरमिति । मेध्यप्रणं प्रति. षिद्धानां मा भूदिति ॥ २७ ॥ हत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने षोडशी कण्डिका ॥ १६ ॥