पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिनियमाः ] उज्वलोपेते प्रथमः प्रश्नः । उत्सम्मश्लाघः॥२७॥ श्लाघा शोभा सा उत्सना यस्य स उत्सन्नश्लाघः । एवंभूतो भवेत । (१)प्रक्षणादिना मुखादिक उज्वल न कुर्यात् इति ॥ २७ ॥ अङ्गानि न प्रक्षालयीत ॥ २८ ॥ (२)विना शिरसा सुस्वार्थमुष्णोदकादिना शरीरं न प्रक्षालयेत् ॥२८॥ प्रक्षालयीत स्व चिलिसानि(३) गुरोरसन्दर्श ॥२९॥- यानि तु मूत्रपुरीषायशुचिलिप्तान्यानि तानि काम(४) मृदा- द्भिः प्रक्षालयेत् यावद्गन्धो लेपश्चापैति । तदपि गुरोरसन्दर्श(५) यत्र धितं गुरु न पश्यति त । आचार्य प्रकरणे गुरुग्रहणाद पित्रादी नामपि ग्रहणम् ॥ २९ ॥ (६) नाप्सु श्लाघमानः स्नायायदि स्नायादण्डव स्थल वेत् ॥३०॥ स्नाने प्राप्ते न इलाधमानः स्नायात् । किं तु दण्डवत्प्लवेदित्युकम् । स्नानीयमलापकर्षणं श्लाघा; क्रीडा वाजले । अपर आह-'अङ्गानि न प्रक्षालयीते (२.२८)त्यासमावर्तनाभित्यस्नानस्य प्रतिषेधः । 'प्रक्षालयीत स्वशुचिलितानी' (स.२९)ति नैमित्तिकस्य विधिः। 'नासु श्लाघमानः स्नाया(सू ३०)दिति तत्रैव लाघाप्रतिषेध इति ॥३०॥ जटिलः ॥ ३१॥ सर्वानेव केशान् जटां कृत्वा विभृयास् ॥ ३१ ॥ शिखाजटो वा वापयेदितरान् ।। ३२ ।। अथवा शिखामेव जटां कृत्वा इतरान्केशान वापयेत् नापितेन ॥ ३२ ॥ १. मृत्कल्कादिना इति क.पु. २. स्नानसमये आमलकादिभिन क्षालयेत् । इति क. पु. ३ गुरोरसन्दर्शने इति क. पु. ४. मृदारिमि. इति ख. पु. ५ यत्र गुरुन पश्यति तत्र । इति ख• पु. 'यत्र लिप्तं गुरुः' इति ग. पु. ६ नाप्सु इलाघमानस्स्नायादित्येतावदेव ख• पु० सूत्रम् । “अधाद्भिश्लाघमानी न स्नायात् तेन ता इलाधामवरुन्धे" (गो. बा. पू. १२.) इति गोपथब्राह्मणम् ॥