पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४६ आपस्तम्बधर्मभूत्रे [(५.६.)क. १५. तत्प्रत्ययमुदकमुल्सिच्याप्रतीक्षा ग्राममेत्य यत्रिय आहुस्तरकुर्वन्ति ॥ ९ ॥ ततः तत्प्रत्ययं तेषां मृताना भार्यादीनां यथा प्रत्ययो भवति–मधमुदक दत्तमित्ति, तथोदकमुस्लिञ्चन्तिा त्रिरित्यनुवृत्तस्त्रि आचारात्पिश्यत्वाच बालसातिलमिश्र हस्तास्यां । भारद्वाजाय यज्ञशर्मणे एतत्तिलोदकं ददा- मीति प्रयोग । उसिच्या प्रतीक्षाः पृष्ठतोऽनिरीक्षमाणा प्राममेत्य गृहं प्रविश्य । अनेन बहिरिद कर्मेति गम्यते । यत्तत्र मृतविषये स्त्रियः कर्तव्यमित्याहुः तत्कुर्वन्ति अग्न्युपस्पर्शनगवाललनादीनि । एतत्प्रथमेऽहनि । द्विती यादि(१)वहरहरअलिनकोत्तरवृद्धिरैकादशाहरिति पितृमेध उक्तंद्र ध्यम् ॥१॥ इतरेषु चैतदेवैक उपदिशन्ति ॥१०॥ 'आकालमभोजन' (२.१५, १) मित्यादि यदुक्तं तदितरेषु भार्यादि. भयोऽन्येस्वपि सपिण्डेषु भूतेषु कर्तव्यमित्येके आचार्या उपदिशन्ति ॥१०॥ शुचीन्मन्नवतस्सर्वकृत्येषु भोजयेत् ॥ ११ ॥ एकान्तेऽपि विधिप्रतिषेधानुसारिणः शुचयः, तान् । मन्त्रवत: (२)अ धीतवेदान् सर्वकृत्येषु श्रौतेषु गायेंषु स्मार्तेषु च कर्मसु देवेषु पित्र्येषु मानुषेषु च भोजयेत् । (३)अन्ते 'ततो ब्राह्मणभोजन मिति स्मृत्यन्तरे दर्शनात् ॥ ११ ॥ देशतः कालतः शौचता सम्यक्प्रतिग्रहीतृत इति दानानि प्रतिपादयति ॥ १२ ॥

  • एतदन्तर-

ब्राह्मणश्चैतस्मिन् कालेऽमात्यान केशश्मभूणि वा वापयते ॥ ११ ॥ अमात्या. प्रधाना. । स्पष्टमन्यत् ॥ ११॥ समावृत्तान वा वपेरन् ॥ १२ ॥ पूर्वापवादोऽयम् । अमात्येन से गुरुकुलात समावृत्ताः स्नातका. न केशादि वाप- मेरम् ॥१२॥ न विहारिण इत्यन्ये ॥ १३ ॥ विहारिणो बालाः । तेऽपि न ॥ १३ ॥ इत्यधिकं. घ. पुस्तके. १. आप. पि. सू. २, अधीताविस्मृतवेदान्' इति. ह. पु ३. 'अन्ततः' इति. च-पु.