पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रेतोदकदानम् । उज्वलोपेत द्वितीयः प्रश्नः । वश्य एवंनामेति । तथा च मनु:- (१) सपिण्डता तु पुरुषे सप्तमे विनिवर्तते । समानोदकमावस्तु जन्मनाबारवेदने ।' इति । य एवंभूनाः पुरुषास्तेषां प्रतेधु मृतेषु उदकोपस्पर्शन मरणनिमित्तं स्नानं कर्नव्यम् । गान् बालान् अपारेमवत्सरानपरिपूर्णलवत्सरान् परि हाप्य वर्जयित्वा । बालेषु मृतेषु मानं न कर्तव्यमिति ॥ २॥ मातापितराव तेषु॥३॥ वालेछु मृतेषु मातापितरावेवोदकर्पशन कुर्याताम् ॥ ३ ॥ हरिश्च ॥ ४॥ ये च तान् बालान् मृतान् हरन्ति नेऽप्युदकोषस्पर्शन कुर्युरिति । एवमाचार्यस्थ पक्षः॥४॥ भार्यायां परमगुरुसंस्थायां चाकाल भोजनम् ॥ ५ ॥ भाया पत्नी। परमगुरव आचार्यमातापितरः। संस्था मरणम् । भाया- यां संस्थितायां परमगुरूणां च संस्थायां सत्यां न केवलमुदकोपस्पर्शन, किं तर्हि ? अपरेयुः आ तस्मान्कालात अभोजन च ॥ ५ ॥ किंच- आतुरव्यसनानि कुरिन् ॥ ६॥ आतुरत्व व्यज्यते यैस्तानि च कुरिन् भार्यादिमरणे ॥६॥ कानि पुनस्तानि ? केशान्प्रकीर्य पांमुनोप्यैकवाससो दक्षिणामुखास्स- कृपमज्योत्तीयोपविशन्त्येवं निः॥ ७ ॥ प्रकीर्य केशान् पासूनावपन्ति । ओप्य एकवासस अनुत्तरीयाः। दक्षिणामुखाः दक्षिण दिशं निरीक्षमाणाः सदुपमज्ज्य उदकादुत्तीर्य तीर उपविशन्ति दक्षिणामुखा पच ॥ ७॥ एवं निः॥८॥ एवमुक्तप्रकारेण त्रिरुपमज्योपविशेयुः ॥ ८॥ १. म. ५.६..