पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.६.)क.१५. द्रव्यपरिग्रहेषु च ॥ १९ ॥ द्रव्यपरिग्रहेषु च द्रध्यार्जनेष्वपि तथा लहत्वमेव । तत्र पतिरा. जथति, जाया गृहे निर्वहनीति योगक्षेमाधुभयायप्ताविति द्रव्यपरिग्रह- ऽपि सहत्वम् ।। १९ ॥ एतदेवोपपादयति- नहि भतुर्विप्रवासे नैमित्तिके दान स्तेषमुपदिशन्ति॥२०॥ हि यस्मात् भर्तुर्विप्रवासे सति नैमित्तिके 'छिन्दत्पाणि दधादि'त्यादिके दाने ते भार्यांया न स्तेवमुपदिशन्ति धर्मज्ञाः । यदि भर्तुरेव द्रव्यं स्यात झ्यादेव स्तेयम् ।, नैमित्तिके दान इति वचनातू व्ययान्तरे स्तेयं भव. स्येव । एतदेव द्रव्यसाधारण्येऽपि दम्पत्यावषभ्यं-यत् पतिर्यथेष्ट वि. नियुझे जाया त्वेताबदेवेति । न च पत्युस्स्वयमार्जितस्य विनियोगे जायाया अनुमत्यपेक्षा, स्वतन्त्रत्वात् । स्वतन्त्रो ह्यसौ गृहे, यथा राजा राष्ट्र । अत एव भायांयारस्तेयशङ्का, न भर्तुः ॥ २० ॥ इत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने चतुर्दशी काण्डका एतेन देशकुलधर्मा व्याख्याताः ॥ १ ॥ 'ज्येष्ठो दावाद' (२. १४. १६.) इत्यादिकं शास्त्रविप्रतिषेधादप्रमाण- मित्युक्तम् । एतेन देशधर्माः कुलधर्माश्च व्याख्याताः । शास्त्रविप्रतिषिद्धा मातु. लसुतापरिणयनादयोऽप्रमाणं विपरीताः प्रमायामिति । गौतमोऽध्याह--- (१) देशकुलधर्माश्वाऽऽनायैरविरुद्धाः प्रमाण' मिति ॥ १ ॥ मातुश्च योनिसम्बन्धेभ्यः पितुश्वाऽऽसप्तमाद्यावता वा सम्बन्धो ज्ञायते तेषां प्रेतेपदकोपस्पर्शनं गर्भान परिहाप्याऽऽपरिसंवत्सरान् ॥२॥ मातुर्योनिसम्बन्धा मातुलादयः । पितुश्वासप्तमात् पुरुषात् सम्बन्धास्सपि- पडायः पैतृण्वस्त्रेयादयश्च तेभ्य आरभ्याऽऽसप्तमादित्यन्वय । यावता पा. न्तरेण सम्बन्धो ज्ञायते स्मयते जन्मना नाशा वाऽमुष्याऽयमस्मत्कूटस्थस्य १. गौ. घ. ११.२.