पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागः] उज्जवलोपंत द्वितीयः प्रश्नः । अधापीति परिहारोपक्रमे । पशूनां मध्ये अजावाऽवयश्च जातिभेदेऽपि सह चन्ति । रेफा शोभा । इह तु तद्वत्यभेदोपचारः। ततः क्यम् । स्वातकस्य मुखं कुण्डलादिना शोभते । स्वशब्दो वाक्यालङ्कारे । श्रोत्रियस्य स्त्री- कामतमत्वमाचार्यकुले चिरकाल ब्रह्मचारिवासात । यथैतानि वाक्या. नि दृष्टान्तमात्रमनुवदन्ति न किचिद्विदधति तस्मात् 'ज्येष्ठ पुत्र'मित्या. दिकमप्यविधिरित न्यायविद आहुः । न केवलमयमेवानुवादः, किं तर्हि 'मनुः पुत्रेभ्य' इत्ययमप्यनुवाद एव ॥ १३ ॥ सर्वे हि धर्मयुक्ता भागिनः ॥ १४ ॥ हिशब्दो हेतौ। यस्मादेवाऽनुवादी न कस्यचिद्विधायको तस्माचे धर्मयुक्ताः पुत्रास्सर्व एते भागिनः ॥ १४ ॥ यस्त्वधर्मेण द्रव्याण प्रतिपादयति ज्येष्ठी. ऽपि तमभागं कुर्वीत ॥ १५ ॥ यस्तु ज्येष्ठोऽप्यधर्मेण द्रव्याणि प्रतिपादयति विनियुके तमभाग कुर्वीत जीव. द्विभागे पिता भाग न दद्यात् । ऊर्ध्व विभाग(१) पितुद्रातरः। अपिश- ब्दात् किमुतान्यमिति ज्येष्ठस्य प्राधान्य स्याप्यते ॥ १५ ॥ जीवन पुत्रेभ्य(२)इत्यनेन दम्पत्योस्सहभावो दर्शितः । तत्र कार. णमाह- जायापत्योर्न विभागो विद्यते ॥ १६ ॥ स्पष्टम् ॥ १६॥ कस्मात् ? पाणिग्रहणाडि सहत्वं कर्मसु ॥ १७ ॥ कर्मार्थ द्रव्यम् । जायायाश्च न पृथक्कर्मस्वधिकारः किं तर्हि ? सह- भावेन-'यस्त्वया धर्मश्च कर्तब्यस्सोऽनया सहति वचनात् । तत्र किं पृथक् द्रन्यणेति ॥ १७ ॥ (३)तथा पुण्यफलेषु ॥ १८ ॥ पुण्यफलेषु स्वर्गादिष्वपि तथा सहत्त्वमेव । (४) दिवि ज्योतिरजर. मारभेता' मित्यादिभ्यो मन्त्रलिङ्गभ्यः ॥ १८ ॥ १. विभागेऽपि प्रातर इति. च. पु. २. इत्यत्र भार्या या भागो न दर्शितः। इति इ.इ.पु. ३, इदमप्रिम च सूत्रमेकतया लिखितं क. पु.।