पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.६)क.१४, स्था पितुरंशः (१) गृहे च यत् परिभाण्डमुपकरण पीठादि तदपि ॥८॥ अलङ्कारो भार्थायाः ज्ञातिधनं चेत्येके ॥ ९ ॥ भायास्तु धृतोऽलङ्कारोऽशा, झातिभ्यः पिनादिभ्यश्च यल्लुब्धं धनं तच्चे. त्येवमेके अन्यते ॥ ९॥ * तच्छाधिप्रतिषितम् ॥१०॥ ज्येष्ठो दायद इति यदुक्तं तच्छाविरुद्धम् ॥१०॥ येन विरुद्ध तदर्शयति- (२)"मनुः पुत्रेभ्यो दार्थ व्यभज"दित्यविशेषेण श्रूयते ॥११॥ पुनेश्य इति बहुवचन निर्देशादविशेषेण श्रवणम् ॥ ११ ॥ अत्र चोधम्- अथापि(१) "तस्माज्ज्येष्ठ पुत्र धनेन निरवसाययन्ती" त्येकवच्छ्यते ॥ १२ ॥ अथापि ननु चेत्यर्थ । ज्यष्ठ पुत्रं धनेन निरवसाययन्ति पृथक्कुर्वन्तीत्येकव. दपि श्रूयते । यथा एक एव ज्यष्टी दायादः तदनुरूपमपि श्रूयते इति ॥१२॥ परिहरति- अथापि नित्यानुवादमविधिमाहुायविदो यथा तस्मादजावयः पशूनां सहचरन्तीति । तस्मात् स्नातक- स्य मुख रेफायतीव । तस्मात् बस्तश्च श्रोत्रियश्च स्त्रीकामतमावति ॥ १३ ॥ १. एतदनन्तरं उपलक्षणमेतत् वाहनस्य इत्यधिक ध.पु.

  • एतचितानन्तरं यतोऽपि नानुवाद। ॥ ११ ॥ स्पष्टम् ॥ इत्यधिकपाठो दृश्यते

छ. पुस्तके। २. मनुः पुत्रेभ्यो दायं व्यभजत् स नाभनिदिष्ठ ब्रह्मचर्य वसन्तं निरभजत इति (तै. स. ३. १.९. ) तत्तिरीयश्रुतौ श्रूयते । तत्र पुत्रेभ्य इत्यविशेषेणैव विभागः श्रुतः । न तु ज्येष्ठस्य विशेषोऽभिहित इत्यर्थ । 'नाभानेदिष्ठः' इसि मनुयुत्रस्य कस्यचिन्नाम । अस्यैव नाभाग इति संज्ञा । अस्य कथा भागवते ( ९ ४.) अनुसन्धेया ! ३, तत्रैव तैत्तिरीयश्रुतौ (तै. सं. २. ५.२, .)