पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायविभागः] उज्वलोपेते द्वितीया प्रश्नः । स्वयमहति लब्धं तनाऽकामो दातुमहतीति । कात्यायन:- 'नाऽविद्यानां तु वैधेन देय विद्याधनान कचित् । समं विद्याधनानां तु देयं वैधन तद्धनम् ॥ परभक्तप्रदानेन प्राप्तयिद्यो यदाऽन्यतः । तया प्राप्त तु विधिना विद्याप्राप्त तदुच्यते । इति । पितामहपितृभ्यां च दत्त मात्रा च यद्भवेत् । तस्थ तन्नाऽपहर्तव्यं(१) शौर्यहार्य तथैव च ॥ इति । यावल्क्य:- (२)"क्रमादभ्यागतं द्रव्यं हृतमयुद्धरेत य: । दायादेभ्यो न तद्याद्विद्यया लब्धमेव च ॥ पत्यौ जीवति यस्त्रीभिरलङ्कारो धृतो भवत् । न तं भजेरन् दायादा मजमानाः पतन्ति ते॥' व्यास:-- 'साधारणं समाश्रित्य यत्किञ्चिद्वाहनायुधम् । शौर्यादिनाप्नोति धनं भ्रातरस्तत्र भागिनः ।। तस्य भागद्वयं देयं शेषास्तु सममागिनः ।। इति पुभदायविभागः । तदभाचे तु भृतस्य य. प्रत्यासन्नः सपिण्ड, सकिम् ? 'दाय हरेते'ति ( १४. ५.) वक्ष्यमाणेन सम्बन्धः। (३) लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डमागिनः । सप्तमा पिण्डदातेषां सापिण्ज्यं साप्तपूरुषम् ।' इति सपिण्डलक्षणम् । नेषु यो य. प्रत्यासनस्स स गृढीयादिति। भार्यो तु रिक्वग्राहिणस्लपिण्डाद्या रक्षेयुः, न तु दायग्रहणमित्याचार्य- स्य पक्षः। श्रूयते हि-(तस्मात् स्त्रियो निरिन्द्रिया अदायादीः' इति। मनुरपि-- (५) अनिन्द्रिया अदायादाः स्त्रियो नित्यमिति श्रुतिरिति । अत्र सपिण्डाद्यभावे बृहस्पति:--- 'अन्यत्र ब्राह्मणाकि तु राजा धर्मपरायणः । १. शौर्य विद्याधनं तथा इति. ध. पु. शौर्य भार्याधनं तथा इति. उ. पु. २. या, स्मृ. २.१९९. ३ मत्स्यपु. अ. १८ श्लो. २९. ४.ते.मं. ६.५.८. ५. म. स्मृ १. १८. निरिन्दिया यमन्त्राश्च स्त्रियोऽनृतमिति श्रुतिः, इति मुद्रित. पुस्तकपाठः । बोधायनसूत्रे तु प्रायस्संवदति ( ३.२. ४७.) पाठः ।