पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मस्लूत्रे [(प.१.)कं.२० धीनताऽनृधते 'अन्यत्र पतनीयेभ्य इति विशेष वस्यामीति ।(२)पत्तनीय इति करणे कृत्प्रत्ययः । (२)अनुमति प्राक्षणामित्वं ब्यापादयेत्याचार्येण चोदितोऽप्येवमादिन कुर्यादिति ॥ १९ ॥ हितकारी गुरोरप्रतिलोमधन्धाचा ॥ २० ॥ आचार्येण प्रयुक्तोऽप्यप्रयुक्तोऽपि तस्मै हितमेव कुर्यात् , वा- चा (३)प्रातिलोस्यमकुर्वन् ।॥ २० ॥ अधासनाशायी ॥ २१ ॥ शयनं शाय' । (४) कृत्यल्युटो बहल'मिति बहुलवचनात् घम् । अधः आसनशायो यस्य सः अधासनाशायी । गुरुमनिधावध आसीत अ धश्शयीतेत्युक्त भवति। अधश्शनस्य सवर्णदीर्वश्छान्दसा, अपपाठो था। तृपाषु प्रस्तरेषु चासनशयने शिष्टाचारसिद्ध ॥ २१ ॥ • नानुदेश्यं भुञ्जीत ॥ २२ ॥ अनुदेश्यं श्राद्धार्थ देवतार्थ वा उद्दिष्टं न भुजीत ॥ २२ ॥ तथा क्षारलषणमधुमांसानि ।। २३ ।। न सुजीतेत्येव । (५)शारादीनि गृो गतानि ॥ २३ ॥ अदिवास्वापी ॥ २४ ॥ न दिवा स्वप्यात् ॥ २४॥ अगन्धसेवी ॥ २५॥ चन्दनादीनि गन्धद्रव्याणि न लेवेत ॥ २५॥ मैथुनं न चरेत् ॥ २६ ॥ उपचारक्रिया केली स्पर्शो (६)भूषणवासमाम् । एकशध्यासन क्रीडा चुम्बनालिङ्गने तथा ॥ इत्यादेस्सर्वस्योपलक्षण मैथुनप्रहणम् ॥ २६ ॥ १. करणे प्रत्ययः इति क. पु. २. अस्मदराति इति ख० पु. ३. प्रातिकूल्य इति ख० पु. ४ पा• सू० ३. ३, ११३ ५. क्षारपदार्थः आप. प्र. २ १५. ११ सूत्रे व्याख्यास्यते । ६ भूषणवाससी. इति. क. पु.