पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दायभागः] उज्वलोपेने द्वितीया प्रश्नः । अथ दाबविभाग:- जीवन् पुत्रेभ्यो दा विभजेत् समं क्लीयमु. न्मत्त पतितं च परिहाय ॥१॥ एकेन प्रधानेन केनचिदनेन गवादिना ज्येष्ठ पुत्रं तोषयित्वा तृप्तं कृत्वा. जीवन्नेव पुत्रेभ्यो दाय विभजेत् । सममात्मना परस्परं च तेषाम् । सामान्याभिधानात् क्रमागतं स्वयमार्जिनं च क्लीयादीन बजयित्वा । क्ली. बादिग्रहणं जास्यन्धादानामप्युपलक्षणम् । यथाह मनुः-- (१) अनंशी क्लीवपतितो जात्यन्धधिरी तथा । उन्मत्सजडमूकाश्च ये च चिनिरिन्द्रियाः इति । अन्धादीनां पुसद्भावे तेऽप्यंशहराः । एवमुन्मत्तपनिती(२) निवृत्ते निमित्ते क्लीबादयस्तु न भर्तव्याः ! अत्र विभागकालः स्मृत्यन्तर- वशाग्राह्यः । तन्न नारद:- (३) मातुर्निवृत्ते रजसि प्रत्तासु भगिनीषु च । निवृत्ते चापि मरणात्पिर्युपरतस्पृहे ॥ इति । यदा पुत्राणां पृथक्पृथक् धर्मानुष्ठाने शक्तिश्रद्ध भवतः स्लोऽपि काल । 'तस्माद्धा पृथकिक्रये ति(४) दर्शनादिति । "जीवनि तिवचन जीव. नेवाऽवश्य पुत्रान् विभजेत् एष धर्म इति प्रतिपादनाय । अन्यथा तद- नर्थकम् । अजीवतोऽप्रसङ्गान् । स्मृत्यन्तरेषु स्वयमार्जितं पितुरिच्छया विषमविभागो दर्शितः। न स धर्य इत्याचार्यस्य पक्षः । माया अ- प्यंशो न दर्शितः । आत्मन एवांशस्तस्या अपीति मन्यते । वक्ष्यति च 'जायापत्योन विभागो विद्यते' (१.१४. १६) इति । कोचतु पितु-वंशावित्याहुः । 'द्वावंशी प्रतिपद्यत विभजनात्मनः पितेति दर्शनात् । अयमप्यावार्थस्य पक्षो न भवति । यथा पुत्राणा- मेकैक एबांशस्सभार्याणां तथा पितुरपीति । यद्वा पुत्राणामेवांशसाम्यं आत्मनस्त्वाधिक्येऽपि न दोषः। तत्र हारीत:- 'पिता याप्रयणः पुत्रा इतरे ग्रहाः यद्याअयणः स्कन्देदुपदस्येद्वा १. 'अनहीं' इति ड पु म. स्मृ. ९ २०१. २. वृत्यनिमित्ते क्लीबादयस्तु न भर्तच्याः, इति ड. पु उन्मत्तपतित्तौ निवृत्तनि. मित्तौ इति च. पु. ३.नार, स्मृ१३.३. ४. म.स्मृ.९.१११. वचनात् इति. क.घ. पुस्तकयोः । आप००३०