पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बाधर्मसूबे [ (५.६.)क. १३. लट् । रक्षतेत्यर्थः । किमर्थम् ? वः युधमाकम् क्षेत्रे परबोजानि पररेतांसि मा वासुः । व्यत्ययेनाऽयं कर्मणि कर्तृप्रत्ययः। मा वाहत उतानि मा भूवन् । मोपवेरन् ! कथमिति ? (अपर आह-परशब्दाज्जसो लुक । परे पुरुषाव क्षेत्रे बीजानि मा वापसुरिति ।) यस्मात् साम्पराये परलोके जेनीय तुरेव पुत्रफलं भवति वेत्ता (१)परिणेता क्षेत्री तु एत तन्तुं मोघं निष्प्रयोजन कुरुते आत्मसात्करोति। इतिशब्दो गाथासमाप्तौ । एतच्च क्षेत्रिणोऽनुशा- मन्तरेण पुत्रोत्पादनाविषयम् । यदा तु क्षेत्री बन्थ्यो रूणो वा प्रार्थयते मम क्षेत्रे पुत्रमुत्पादयति, यदा वा सन्तानक्षये विधवां नियुञ्जते यथा विचित्रवीर्यस्य क्षेत्रे सत्यवती ब्यालेन । तदुत्पन्नः पुत्र उभयोरपि पुत्रो भवति-बीजिनः क्षेत्रिणश्च । ह्यामुष्यायणश्च स भवति । तथाचा. चार्य एवाह- (२) यदि द्विपिता स्यादेकै कस्मिन् पिण्डे दो द्वाबुपलक्षय दिति । याज्ञवल्क्योऽध्याह-- (३) अपुत्रेण परक्षेने नियोगोत्पादितः सुतः । उभयारण्यलो रिक्थी पिण्डदाता च धर्मतः' इति । नारदोऽपि- (४)द्यासुध्यायणको दद्याद्वाभ्यां पिण्डोदके पृथक् । रिक्याद समादद्याद्वीजक्षेत्रवतोस्तथा । इति ॥६॥ यदि पूर्ववत्यादिषु मैथुने दोषः. कथ तर्हि (५) उच्चथ्यभारद्वाजौ ब्य त्यस्य भायें जग्मतुः(६) वलिष्ठश्चण्डालीमक्षमालाम् । (७)प्रजापतिश्च स्वां दुहितरम् । तत्राहि- दृष्टो धर्मव्यतिक्रमस्साहसं च पूर्वेषाम् ॥ ७ ॥ सत्यं धोऽयमाचारः पूर्वेषाम् । स तु धर्मव्यतिक्रमः, न धर्मः, गृह्य माणकारणत्वात् । न चैतावदेव, साहसं च पूर्वेषां दृष्टम् । यथा(८) जामद न्येन रामेण पितृवचनादविचोरण मातुश्शिरश्छिन्नम् ॥ ७ ॥ () एतत्कुण्डान्तर्गतोभागः ख च पुस्तकयोरेवास्ति । तत्र 'कथमिति' इति नास्ति। १. 'भार्याया लब्धा' इति ख. च. पु. २. आप श्री १.९.७. ३. या. स्मृ. २. १३०. ४. नार स्मृ १३. ४३. ५. महाभारते द्रष्टव्यम् । ६. म. स्मृ. ९. २३. महाभा. व. १३२. च दृष्टव्यम् । अरुन्धत्या एवाक्षमालेति नामान्तरम् । ७. ता.मा.८.२.१..द्रष्टव्यम्। ४. कथेयं महाभा, वन ११६ अ. द्रष्टया.