पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्लस्वधर्मसुत्रे [ (प.५.)क.१२. स्वपन्नभ्युदितो नाश्चान्धाग्यतोऽहस्तिष्ठेत् ॥१४॥ पूर्वेण गतम् । 'उदकमुपस्पृश्य वाच विसृजेदिति चात्राऽपेक्ष्यते । तत्राऽस्तमिते स्नानप्रतिषेधात् सायमेव स्नात्वा वाचं विसृज्य सन्ध्या- मुपासीत ॥१४॥ आतमितोः प्राणायच्छेदित्येके ॥ १५ ॥ यावदानां ग्लानिर्भवति तावत्प्राणमायच्छेत् प्राणवायुमाकृष्य धारयेत् । प्राणायाम कुर्यादित्यो के मन्यते । शक्त्यपेक्षो विकल्पः ! (१)लव्याहृती सप्रणवां गायत्री शिरसा लह । त्रिः पठेदायतप्राणः प्राणायासस्स उच्यते ॥ इति । एकमावलये द्यावद्ग्लानिः ॥ १५ ॥ स्वमं वा पापकं दृष्ट्वा ॥ १६ ॥ पापकस्वप्नो दुस्स्वप्नः मर्कटास्कन्दनादिः । तं च दृष्ट्वा ॥ १६ ॥ अर्थ वा (२)सिसाधयिषन् ॥ १७ ॥ अर्थः प्रयोजनम् । तच्च दृष्टमष्ट वा साधयितुमिच्छन् ॥ १७ ॥ नियमातिकमे चाऽन्यास्मिन् ॥ १८॥ नियमानां 'उदङ्मुखो मूत्रं कुर्यादि' (१.३१,१.) त्येवमादीनामाते क्रमे च पातमितो' प्राणमायच्छदिति सर्वत्र शेषः ॥ १८ ॥ दोषफलसंशये न तत् कलेव्यम् ॥ १९ ॥ यस्मिन् कर्मणि कृते पक्षे दोषः फलं सम्भाव्यते न तत् कुर्यात, यथा समये देशे एकाकिनो गमनमिति ॥ १९ ॥ एवमध्यायानध्याये।॥२०॥ संशय इत्युपसमस्तमप्यपेक्ष्यते । अध्यायोऽनध्याय इति संशयेऽप्येवं न तत् कर्तव्यमिति ! 'लन्धावनुस्तनित' ( १.९.२०.) इत्युदाहरणम् । पूर्वस्यैवाऽयं प्रपश्चः ॥ २० ॥ न संशये प्रत्यक्षवद्यात् ॥ २१ ॥ संशयितमर्थमात्मनोऽशानपरिहाराय प्रत्यक्षवत् निश्चितवन ब्रूयात् ॥ १. सर्वेष्वादर्शपुस्तकेषु मनुवचनत्वेनैवोपन्यस्तमिदम् । न कुत्राऽपि तु मुद्रित मनुस्मृतिपुस्तकेषूपलभ्यते । बौधायनधर्मसूत्रे ४. १. २८. तूपलभ्यते । २. सिसाधीयषु', इति, प. पु.