पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवाहदाः] उज्ज्वलोपेले द्वितीया प्रश्नः । तत्त्रमाणं कर्तन्यम् । मानव्यो हि प्रजा इति विज्ञायते इति । मोत्राणां तु सहस्त्राणि प्रयुतान्यर्बुदानि च । जनपञ्चाशदेवैषां प्रवरा ऋषिदर्शनात् ॥ एक एव ऋषिर्यावत्प्रवरेचनुवर्तते। तावस्लमानगोत्रत्वमन्यभृग्वाङ्गिरोगणात ॥ इति । सुमन्तु:-- (१)पितृपल्यस्सर्वा मातरस्तद्भातरो मातुलाः तत्सुतामातुलसुता. स्तस्मात्ता नोपयन्तव्या' इति ॥१६॥ ब्राले चिकाहे बन्धुशीललक्षणसम्पाश्रुनारोग्याणि बुध्या प्रजा सहस्वकर्मभ्यः प्रतिपादयेच्छक्ति. विषयेणालंकृत्य ॥ १७ ॥ ब्रह्मणा इष्टो ब्राह्माः । तस्मिन् विवाहे वरस्य बन्ध्वादीन् बुध्या परीक्ष्य प्रजा दुहितरं सहत्वकर्मभ्यः सहकर्तव्यानि यानि कर्माणि तेभ्यः, तानि कर्तुम् , प्रतिपादयेत् दद्याद । शक्तिविषयेण विभक्तिप्रतिरूपाऽयं नियातोय. थाशक्तीस्यस्यार्थे द्रष्टव्यः । यथाशक्त्यलंकृत्य दद्यादित्येष ब्राह्मो विवाह प्रजासहत्वकर्मभ्य' इति पाठे प्रजाथै सहत्वकर्मार्थ चेति ॥ १७॥ आर्षे दुहितमते मिथुनौ गादौ देयौ ॥ १८ ॥ ऋषिभिष्टे विवाहे मिथुनौ गावौ स्लोगवी पुंगवश्च दुहितमते देयौ । एष आर्षः ॥१८॥ दैवे यज्ञतन्त्र ऋत्विजे प्रतिपादयेत् ॥ १९ ॥ देवरीष्टे विवाहे यातन्त्र वितते ऋत्विजे कर्म कुर्वते कन्यां दद्यात् । एष देवो विवाहः ॥ १९ ॥ मिथः कामासांवतते स गान्धर्वः ॥ २० ॥ यत्र कन्यावरौ रहसि कामात् मिथः परस्परं रागात् सावतेते मिथुनी. भवतः स गान्धर्वो विवाहः । समो दीर्घः पूर्ववत् । अत्र संयोगोचरकालं विवाहसंस्कारः कर्तव्यः ॥ २०॥ इत्यापस्तम्बधर्मसूत्रवृत्ती द्वितीयप्रश्ने एकादशी कण्डिका || ११ ॥