पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तस्वधर्मसूत्र [(प.५.)क.११. (१) अविप्लुतब्रह्मचयों लक्षण्या स्त्रियमुखहेत् । अनन्यपूर्विका कान्तामसपिण्ड यधीयसीम् । अरोगिणी भ्रातृमतीमसमानार्षगांत्रजाम् । पञ्चमात्सप्तमा मातृतः पितृतस्तथा ।' विष्णु:-- (२) असगोत्राभलमानप्रवरा भार्या विन्देत मातृतः पञ्चमात् पितृत- सप्तमात्। नारद:-- (३)आसप्तमात्पशमाञ्च बन्धुभ्यः पितृमातृतः। अविवाशास्सगोत्रास्स्स्समानप्रवरास्तथा। 3 शातातप:- (४) परिणीय सगोत्रां तु समानप्रवरा तथा । कृत्वा तस्यास्लमुत्सर्गमतिकृच्छ्रो विशोधनम् ।। मातुलस्य सुतामूरा मातृगोत्रां तथैव च । समानभवरां चैव द्विजधान्द्रायणं चरेत् ॥ (५)पैतृष्वसेयों भगिनीं स्वस्नीयां मातुरेव च । मातुश्च भ्रातुस्तनयां गत्वा चान्द्रायणं चरेत ॥ पतास्तिनस्तु भार्यार्थ नोपयच्छेत्तु बुद्धिमान् । शातित्वेनाऽनुपेयास्ताः पतति झुपयनधः । बौधायन:- (६) सगोत्रां चेदमस्योपयच्छेत मातृवदेनां विभृयात्' । (७) सगोत्रां गत्वा चान्द्रायणमुपदिशेत् । व्रते परिनिष्ठिते ब्राह्मणी न त्यजेत् मातृवद्भगिनीवदर्भो न दुध्यतीति काश्यप इति विज्ञायते । अथ सामिपात अविवाहः सदाध्यायं वर्जयेत् । बोधायमस्य १. या. स्म. १.५९,५३. २. मुद्रितश्लोकात्मकविष्णुस्मृतौ नेदं वचनमुपलभ्यते परन्तु प्रन्थान्तरेष्वस्या विष्णु- स्मृतित्वमुक्तम् । ३. नार. स्मृ. व्यवहा. १२. श्लो... ४. मुद्रितशातातपस्मृतौ लघुशतातपस्मृतौ वृद्धशातातपस्मृतौ वा नेदं वचनमुपलभ्यते। ५. म. स्मृ. ११ १७१, १७२. ६. बौध, २.१.३८. ५. महाप्रवरे समाप्तिसूत्रकाण्डे । बौ. सू. (प्रवर) १३.५५,