पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सगोत्रविवाहनिषेधः ] उज्ज्वलोपेते द्वितीयः प्रश्नः । सा प्रशस्ता छिजातीनां (१)दारकर्मण्यमैथुनी ।। व्यास- (२) स्नात्वा समुबहेकन्यां सवर्णी लक्षणान्विताम् । यवीयसी भ्रातृमतीमसगोत्रां प्रयत्नतः।। मातुस्सगोत्रामप्येके नेच्छन्त्युद्वाहकर्मणि । जन्मनाम्नोरविझाने नोद्वहेदविशङ्कितः मातुस्सपिण्डा यत्नेन वर्जनीया द्विजातिभिः ॥ इति ।' गौतमः- (३) असमानप्रवरैर्विवाहः । ऊर्ध्व सप्तमात्पितबन्धुभ्यो बीजिनश्च । मातृबन्धुभ्यः पञ्चमात्, इति । कात्यायन:--'प्रवर एषामविवाह हत्येतेषु प्रत्यध्यायमाहत्य वचनं येषामेव प्रवरा तेषामेवाविवाह' इति । कारिका भवति- रातीयानामविवाह एषामिति येषां सूत्रकदधीत् । तेषामेव विवाहः स्यात् नान्येषामिति धारणेति ॥ 'दारानाहरेत्सदृशानसमानार्षयानसम्बन्धानासप्तमपञ्चमात्पितृमा. तृवन्धुभ्यः इति। वसिष्ठः- (५) गृहस्थो विनातक्रोधहर्षों गुरुणाऽनुज्ञातः स्नात्वाऽसमानार्षयाम स्पृष्टमैथुनामवरथयसी भ्रातृमती सदी भार्या विन्देत । पञ्चमी मात. बन्धुभ्यः सप्तमी पितृबन्धुभ्यः' इति । हारीस(६)- शिवत्री कुष्ठन्युदरी यक्ष्मामयाज्यल्पायुरनायम ब्रह्म समानार्षेयमि. त्येतान्यपतितान्यपि कुलानि वर्जनीयानि भवन्ति । कुलानुरूपाः प्रजा भवन्तीति । मादितषडयशियवादनाःयम् । अवेदत्वादब्रह्म । एक. कुलस्वात् समानार्षेयमिति । तस्मात् सप्तपितृतः परीक्ष्य पञ्च मातृतो निग्निका श्रेष्ठ भ्रातृमी भार्या विन्देत। पैठीनसिः--असमानार्षेयां कन्यां वरयेत् ।पञ्चमातृतः परिहरेसप्त पितृतः त्रीमातृतः पञ्च पितृतो वा' १. दारकर्मण्यमैथुनी इत्येव मेधातिथ्यादिभि पाठोऽशीकृत । कुल्लूकभट्टस्तु 'कर्मणि मैथुने' इति । १. ४. १. एतदकारितानि वचनानि तेषु तेषु मुद्रितपुस्तकेषु नैवोपलभ्यन्ते । ३. गौ.ध.४.२--५. ५.व.ध८.१.२.