पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.१.)कं.२. नाध्यापनम् ॥ ८॥ नाध्यापन कृतस्य वेदस्य । किं तु गृहमन्त्राणामेति ॥ ८॥ ततो यो निवर्तते लस्य संस्कारो यथा प्रथमेऽतिक्रमे ॥९॥ ततः एवं कृतप्रायश्चित्तात् गृहस्थीभूताधो निवर्तते उत्पद्यते तस्योपन यनसंस्कारः कर्तव्यः । कथम् ? यथा प्रथमेऽतिक्रमे ऋतुं विद्यकं ब्रह्मचर्वे चारयित्वेत्यर्थः ॥९॥ सत अयं प्रकृतिवत् ॥ १० ॥ तत. यो निवर्तते तस्य प्रकृतिवत् यथा प्राप्तमुपनयनं कर्तव्यामिति । यस्य तु प्रपितामहस्य पितुरारभ्य नानुस्मयंत उपनयनं तत्र प्रायश्चित्तं नोकम् , धर्मसहितव्यम् ॥ १०॥ एवं ततः पूर्वेष्वपि निकापेतमुपनयनम् , अथाऽध्ययनविधिः- उपेतस्याऽऽचार्यकुले ब्रह्मचारिवासः ॥ ११ ॥ एवं यथाविध्युपतस्य ब्रह्मचारिणस्लत आचार्यकु वासे भवति । ब्रह्म वेदस्तदर्थ व्रतं बरतीति ब्रह्मचारी । अध्ययनाङ्गानि ब्रतानि चरता आचार्यकुले वस्तव्यमित्युक्तं भवति ॥ ११ ॥ (१)अष्टाचत्वारिंशवर्षाणि ॥ १२ ॥ चतुर्णा घेदानामध्ययनकाल एषः । प्रतिवेद द्वादश ॥ १२ ॥ पादूनम् ॥ १३ ॥ स एव कालः पादून वा प्रत्येतन्यः। पादेनोनं पादूनम् । पररूपं (२)कतन्तवत् । षन्त्रिंशद्वर्षाणि । प्रतिवेदं नव ॥ १३ ॥ अर्धन ।। १४॥ उनमिति(३) समस्तमप्यपेक्षते । चतुर्विशतिवर्षागि । प्रतिवेदं षट् ॥१४॥ १. गोपथब्राह्मणेऽथर्ववेदीये द्वितीयप्रपाठके पश्चमब्राह्मणेऽस्य विधिश्यते---तस्मा एतत् प्रोवाचाष्टाचत्वारिंशद्वर्ष तच्चतुर्धा वेदेषु व्यूध द्वादशवर्ष ब्रह्मवर्थ, द्वादशवर्षाण्यवरार्थ, मपि स्तायश्चरेयथा शक्त्यपरम्" ( गोप, बा. पू. २. ५.) इति ॥ २. 'शकन्भ्वादित्वात्' इति घ. पु. । ३. उपसमस्तमिति ख० पु. प्राप्तसमासमपात्यर्थः । सर्वत्राप्यपेक्षते इति. घ. पु. तत्र काल:-