पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तस्वधर्मसूत्रे [(प...)क.११. पन्या दासब्या ! क्षत्रियैरष्यनभिषिक्तः । एतदर्थमेष चेदं वचनम् : अ. भ्यत्र 'वर्णस्यायसां चे' (२.११.८) ति वक्ष्यमाणेनैव सिद्धम् ॥ ५ ॥ समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ ६ ॥ आपदि शिष्यभूतब्राह्मणविषयमिदम् । शिष्यभूतेनाऽपि ब्राह्मणेन समेत्य तस्यैव राशा पन्धा देय इति ॥ ६॥ (१)यानस्य भाराभिनिहितस्थाsतुरस्य स्त्रिया इति सवैतव्यः(२) ।। 0 1॥ यान शकटादि । भाराभिनिहितो भाराकान्तः। आतुरो बाधितः । स्त्रियाः यस्याः कस्याश्चिदपि ! एतेभ्यस्सवैरेव वर्णैः पन्था दातव्यः । इतिशब्दाद स्थविरबालशादिभ्यश्च ॥७॥ वर्णज्यायसां चेतरैणः ॥ ८॥ वर्णनोत्कृष्टां वर्णज्यायांस । तेषां चेतरैरपकृष्टैर्षणाक्षणैश्च दातव्यः ॥८॥ अशिष्टपतितमत्तोन्मत्तानामात्मस्वस्थ- यनार्थेन सबैरेव दातव्यः ॥ ९ ॥ अशिष्टो मुर्खः । अन्ये प्रसिद्धाः । एतेषां सवेरेवंजातीयैरुत्कृष्टरपक. वर्णैाह्मणैश्च । आत्मस्वस्त्ययनार्थेन स्वस्त्ययनमात्मत्राणम् । तेन प्रयोजने. न तदर्थम्, न त्वष्टार्थमिति । अत्र कौटिल्यन देवस्य पथः प्रमाणभुक्त- म्--(३) पञ्चारनी रथपथश्चत्वारो हस्तिपथो द्वौ क्षुद्रपशुमनुष्याणा मिति ॥९॥ धर्मचर्यया जघन्यो वर्णः पूर्व पूर्व वर्णमा. पद्यते जातिपरिवृत्ती ।। १० ॥ धर्मचर्यया स्वधर्मानुष्ठानेन जघन्यो वर्णः शूद्रादिः पूर्व पूर्व वर्णमापद्यते वै. भ्यादिकं प्राप्नोति । जातिपरिवृत्तौ जन्मनः परिवर्तने । शुदो वैश्यो जायते । १. रुद्धस्य भारा इति ध, पु. २. अन्धस्य पन्था बधिरस्य पन्थाः स्त्रियः पन्था भारवहस्य पन्थाः । राक्षः पन्था ब्राह्मणेनाऽसमेत्य समेत्य तु ब्राह्मणस्यैव पन्थाः ॥ इति महाभारते वनपर्वणि । ३. कौ. अ. २.४.२२. 'पञ्चारत्नयः' इति अर्थशास्त्रपुस्तकेषु मुद्रितेषु । परन्तु पञ्चारनिः इत्येवाऽनुमादो अन्यान्तरेबपि ।