पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डप्रणयनम् ] उज्ज्वलोपेते द्वितीयः प्रश्नः । वघदास्यवर्ज बधस्ताडनादि, वध दास्यं च वर्जयित्वा अर्वमन्यत् बन्ध- लादिकं बलानुरूप कारयेत् यावचे भन्येरन् चरेम प्रायश्चित्तमिति ॥१८॥ इत्यापस्तम्बधर्मसूत्र उज्वलोपेते द्वितीयप्रश्ने दशमी कण्डिका ॥१०॥ एवं ब्राह्मणविषये उक्तम् । इतरेषामाह -- इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां कर्माणि राजा दण्डं प्रणयेत् ॥१॥ इतरेषां ब्राह्मणव्यतिरिकानां वर्णानां राजा पुरोहितोक्त दण्ड स्वयमेव प्रणयेत् तेषा कर्माणि समवेक्ष्य तदनुरूपमा प्राणविप्रयोगात् अभिविधा वाकारः॥१॥ न च सन्देहे दण्डं कुर्यात् ॥ २॥ अपराधसन्देहे राजा दण्डं न कुर्यात् ॥ २॥ किन्तु सुविचितं विचित्या देवप्रश्नेभ्यो राजा दण्डाय प्रतिपधेत ॥३॥ आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिसि. शपथान्तैः सुविचित यशा भवति तथा विचित्य निरूप्य । राजा दण्डाय प्रतिपद्यत उपक्रमेत ॥३॥ एवं कुर्वतः फलमाह- एवंवृत्तो राजोभी लोकाचभिजयति ॥ ४ ॥ एवंभूतं वृत्तं यस्य स एवंवृत्तः । अत्र मनु- (१) बदण्ड्यान्दण्डयन राजा दण्ड्यांश्चैवायदण्डयन् । अयशो महदामोति(२) प्रेत्थ स्वर्गाच्च होयते ॥ इति ॥ गच्छता प्रतिगच्छतां च पथि समवाये केन कस्मै पन्था देय इत्य. त आह- राज्ञः पन्था ब्राह्मणेनाऽसमेत्य ॥ ५ ॥ राजा अभिषिक्तः । स यदि ब्राह्मणेन समेतो न भवति, तदा तस्य १.म. स्मृ८, १२८, २, नरकं चैव गच्छति इति मुदितपुस्तकेषु पाठः । आप० ध०२० .