पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.५)क.१०. कर्मणि युद्धशास्ने धा येषामभियोगः ते तधोगाः ॥ ११ ॥ यस्तायुधप्रकीर्णकेशमाञ्जलिपराङावृत्ता नामा वधं परिचक्षते ॥१२॥ न्यस्तायुधः त्यक्तायुधः । प्रकीर्णकेशः केशानपि नियन्तुमक्षमः । प्रालिः कृताञ्जलिः । पाहावृत्तः पराङ्मुखः। सर्व पते भीताः । तेषां युद्ध वधमार्यालसन्तो गहन्ते । परिगणनादन्धेषां वधे न दोषः। तथा च गौतमः-(१)न दोषो हिंसायामाहव' इति । न्यस्तायुधः प्रकी केशः इति विसर्जनीयं केचित्पठति । सोऽपपाठः पराङावृत्त इति कार छान्दसः ॥ १२॥ शास्त्रैरधिगतानामिन्द्रियदौर्बल्यातिप्रतिपन्नानां शा. स्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् ॥ १३ ॥ यथाशास्त्रं गर्भाधानादिभिः संस्कारैः संस्कृताः शास्त्रैरधिगता तेषा. मिन्द्रियदौर्बल्यात् आजतेन्द्रियतया विप्रतिपन्नानां स्वकर्मतश्च्युतानां निषि- द्वेषु च प्रवृत्तानाम् । शास्ता शासिता आचार्यादिः । निर्वे प्रायश्चित्त. मुपदिशेत् । यथाकर्म कर्मानुरूपम् । यथोक्त धर्मशास्त्रेषु ॥ १३ ॥ तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजनं गमयेत् ॥ १४ ॥ तस्य चेच्छासितुः शास्त्रे शासन अतिप्रवर्तेरन् न त तिष्ठेयुः राजानं गम. येत्-एवमलौ करोतीति ॥ १४ ॥ राजा पुरोहितं धर्मार्थकुशलम् ॥ १५ ॥ स राजा धर्मशास्त्रेवर्थशास्त्रेषु कुशलं च पुरोहितं गमयेत्-विनीय- तामसाविति ॥ १५ ॥ सवालणानियुज्यात् ॥ १६ ॥ स पुरोहितः ब्राह्मणाश्चेदतिक्रमणकारिणः प्रापिताः तान्नियुज्यात् अ. नुरूपेषु प्रायश्चितेषु नियुञ्जीत ॥ १६ ॥ अथ यदि ते तत्रापि न तिष्ठेयुः, तदा किं कर्तव्यमित्यत आह- बलविशेषेण(२) वधदास्यवर्ज नियमैरूपशोषयेत ॥१७॥ ततस्तानियमैरुपवासादिभिरुपशोषयेत् । बलविशेषेण बलानुरूपम् । १. गौ. घ. १०. १९. २. अत्र विषये मानवौ ८. ३८०, ३८१. श्लोको द्रष्टव्यौ ।