पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अतिथिपूजा] उज्ज्वलोपेते द्वितीयः प्रश्नः । कर्मसु अग्निहोत्रादिषु आर्जनेषु च यथा स्वयं समर्थों भवति तथाss स्मान नोपरुन्ध्यात कुटुम्बी ॥ १२ ॥ अथाऽप्युदाहरन्ति- (१) अष्टौ ग्रासा मुनेर्भक्ष्याः पोडशाऽरण्यवासिनः । द्वात्रिंशतं गृहस्थस्थाऽपरिमितं ब्रह्मचारिणः॥ आहिताग्निरनवांश्च ब्रह्मचारी च ते त्रयः । अश्नन्त एव सिध्यन्ति नैषां सिद्विरनश्नतामिति। अर्थतस्मिन्नात्मानं नोपरुन्ध्यादिति विषये (२)श्लोकावुदाहरन्ति । मुनेः सल्ल्यासिनः । भक्ष्या अष्टौ प्रासाः आस्थाविकारेण । अरण्यवासी वानप्रस्थ । तस्य घोडश । द्वात्रिंशत् प्रासाः गृहस्थस्य । प्रथमार्थे द्वितीया । ब्रह्मचारिणस्तु विद्यार्थस्थ नैष्ठिकस्य च ग्रासनियमो नास्ति । द्वितीयेन श्लोकेना. हिताग्निविषये 'कालयोभॊजन' (२.१.२.) मित्ययमपि नियमो नास्तीति(३) प्रतिपाद्यते । अनडुग्रहणं दृष्टान्तार्थम । ब्रह्मचारिग्रहणं हद्धार्थम् ! सिध्यन्ति स्वकार्यक्षमा भवन्ति ॥ १३ ॥ इत्यापस्तम्बधर्मसूधे नवमी कण्डिका ॥ इत्यापस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलाया द्वितीयप्रश्ने चतुर्थः पटलः ।। ४ ॥ १. एतच्छ्लोकद्वयानन्तर गृहस्थो ब्रह्मचारी का योऽनश्नन् सुतपश्चरेत् । प्राणा. ग्निहोत्रलोपेन अवाणी भवेत्तु सः । इत्वधिकस्सूत्रभागो घ. पुस्तके ॥ २. इलोकान् इति घ. पु. ३. प्रतिपादयितुम् इति पु क.